________________
175
आह्निकम् २] प्रत्यक्षस्य प्रवृत्त्यादिहेतुत्वोपपादनम् . .. [प्रत्यक्षस्य प्रवृत्तिहेतुत्वे वाचस्पतिमतम् ] , अत्राचार्यास्तावदाचक्षते-साधु चोदितम्। सत्यम् , ईदृश एवायं ज्ञानानां क्रमः । न वयं प्रथममालोचनाज्ञानस्य उपादानादिषु प्रमाणतां ब्रूमः । तथा हि-प्रथम मिन्द्रियार्थसन्निकर्षोत्पन्नमालोचनाशानं इन्द्रियार्थसन्निकर्षादिसामग्रीस्वभावस्य प्रत्यक्षस्य प्रमाणस्य फलमेव, न तु स्वयं प्रमाणतां प्रतिलभते ; स्मृतिजनकत्वात् । तदनन्तरं हि सुखसाधन त्वानुस्मृतिर्भवतीति सेयमनुस्मृतिरप्रमाणफलमपि सती प्रत्यक्षं प्रमाणं संपद्यते, 'तथाऽयं कपित्थादिजातीयः' इतीन्द्रियविषय परामर्शोत्पत्तौ इन्द्रियार्थसन्निकर्षेण सह व्याप्रियमाणत्वात् ॥
स पुनः परामर्शप्रत्ययः प्रत्यक्षजनितः धूमज्ञानवत् अनुमानं प्रमाणमुच्यते,परोक्षस्याग्नेरिव सुखसाधनसामर्थ्यस्य ततः अवगतेः॥
प्रमाणतां-करणताम् । प्रत्यक्षस्य प्रमाणस्य-इन्द्रियाख्यस्य । स्मृतिजनकन्वादिति। प्रमाणं ह्यनुभवजनकम् । एवञ्च स्मृतिजनकत्वात् आलोचनाज्ञानं इन्द्रियाख्यप्रमाणस्य फलमेव, न तु प्रमाणमित्यर्थः । अप्रमाणफलमपि सती-प्रमाणफलं अभवत्यपि। साक्षात् इन्द्रियाद्यजन्यमपीत्यर्थः। ननु पूर्वानभवजनितसंस्कारादुत्पन्नाया सुखसाधनत्वानुस्मृतेः कथं प्रत्यक्षप्रमाणत्वम् ? इति शङ्कायामाह - तथेति । नात्र स्मृतेः प्रत्यक्षप्रमाणत्वमुक्तं, किन्त अनुस्मृतेः । इदन्तांशे तस्याः प्रत्यक्षत्वं वर्तत एव इन्द्रियसापेक्षत्वात् । प्रत्यभिज्ञा ह्यनुस्मृति: । प्रत्यभिज्ञा च प्रत्यक्षमेवेत्यर्थः । इन्द्रियेत्यादि । इन्द्रियविषयवस्तुविषयकपरामर्शेत्यर्थः ॥ - स पुनरित्यादि । धूमज्ञानं यथा वहयनुमितिहेतुः, तथा 'सोऽयं कपित्थजातीयः' इति परामर्श: सुखसाधनसामर्थ्यानुमितिहेतुर्भवतीत्यर्थः । प्रत्यक्षजनितः- सुखसाधनत्वानुस्मृतिजनितः। परंपरया प्रत्यक्ष ननितो वा। स्वानुभवजनित इति यावत् । तथा च उपादानादिषु सुखसाधनत्वानुस्मृति: प्रत्यक्षं प्रमाण, परामर्शश्चानुमानरूपं प्रमाणमिति विवेकः। प्रकृते उपादेयं वस्तु ऐन्द्रियिकं, अनुमानस्थले तु तत् परोक्षमिति विशेषः अनन्तरवाक्येषु स्पष्टः॥
त्व-ख.
शेष-ख.