________________
174
प्रत्यक्षलक्षणम्
[न्यायमचरी
[स्वव्याख्याने बीजवर्णनम् ] ननु समानाधिकरणे एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते! किं यतः' शब्दाध्याहारेण ? उक्तमत्र-करणस्य प्रमाणत्वात् ज्ञानस्य च तत्फलत्वात् फलकरणयोश्च स्वरूपभेदस्य सिद्धत्वात् ॥
प्रमाणतायां सामग्रथाः तज्ज्ञानं फलमिष्यते । तस्य प्रमाणभावे तु फलं हानादिबुद्धयः॥
[प्रत्यक्षस्य प्रवृत्तिनिवृत्ति हेतुत्वाक्षेप:] ननु स्मृत्याद्यनेकवुद्विव्यवधानसंभवात् कथमिन्द्रियार्थ: सन्निकर्षोत्पन्नमालोचनाशानं हानादिफलं भवेत् ? तथा हिकपित्थादिजातीयमर्थ इन्द्रियादिसन्निकर्षादिसामग्रीत उपल'भ्य' तद्गतं सुखसाधनत्वमनुस्मरति--‘एवंजातीयकेन मम पूर्व सुखमुपजनितमभूत्' इति । ततः स्मृत्यनन्तरं परामर्शज्ञानमस्योपजायते'अयं स कपित्थजातीयः' इति । तत उपादेयताज्ञानमुत्पद्यते'यत एष सुखसाधनं कपि स्थादिजातीयः पदार्थः, तस्मादुपादेयः' इति। अत्रान्तरे प्रथमस्येन्द्रियसन्निकर्षजन्मनः कपित्थालोचनाज्ञानस्य नामापि नावशिष्यत इति कथमस्य तत्फलत्वमिति ॥
नन्विति। इदं करणलक्षणपरमिति विस्मृत्य एतत्सूत्रमात्रद्रष्टुरियमाशङ्का ॥
प्रमाणतायामित्यादि। प्रमाणपदं करणार्थकत्वे सामग्रीपरम् । भावार्थकत्वे प्रमितिपरम् । तत्राये ज्ञानमेव फलम् । द्वितीये प्रवृत्तिनिवृत्त्यादिनिश्चयः फलमित्यर्थः ।।
आलोचनाशानम-साक्षात्काररूपं सविकल्पकज्ञानम्। हानादिफलंहानादिफलकम् । उपलभ्येति । इयमुपलब्धिरेब आलोचनाज्ञानम् । तद्गतंकपित्थगतम् । 'तत:' इत्यस्य विवरणम्-स्मृत्यनन्तरमिति । परामर्शशानमिति । इदमेव शास्त्रे कुत्रचित् विकल्प इत्युच्यते । एष कपित्यादिजातीय इत्यन्वयः। कथमिति । हानोपादानादेरनुमानमूलकत्वात् इत्यर्थः ॥
1 भ्यते-क.
त्य-क.
त-क.