________________
भाह्निकम् २]
प्रत्यक्षलक्षणसूत्रव्याख्यानम्
171
द्वितीयमाह्निकम्-प्रत्यक्षपरीक्षा
[प्रत्यक्षलक्षणम् एवं प्रमाणानां सामान्यलक्षणे, विभागे च निर्णीते सति, अधुना विशेषलक्षणवर्णावसर इति, सकलप्रमाण मूलभूतत्वेन पूर्वपठितत्वेन ज्यैष्ठयात् प्रथम प्रत्यक्षस्य लक्षणं प्रतिपादायतुमाहइन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदे श्यामव्यभि
चारि व्यवसायात्मकं प्रत्यक्षम् ॥ १.१.४॥ प्रत्यक्षमिति लक्ष्यनिर्देशः; इतरल्लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः । समानजातीयं प्रमाणतयाऽनुमानादि, विजातीयं प्रमेयादि । ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन सूत्रेणोपपाद्यते ।।
[सूत्रस्यायुक्तताऽऽक्षेपः] . अत्र चोदयन्ति-इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणः स्वरूपं वा विशेष्यते ? सामग्री वा ? फलं वा?
विभागे-चतुष्टयत्वेनेति शेषः ॥
समानेति । सजातीयविजातीयव्यावृत्तिः लक्षणस्य प्रयोजनमित्यर्थः ।। - चोदयन्तीति । अयमाशयः। अस्मिन् सूत्रे 'प्रत्यक्ष' इति पदं लक्ष्यवाचकम् , अत एव विशेष्यम् । प्रत्यक्षशब्दश्च अफलरूपे अकरणरूपे च कंवलज्ञाने, तादृशज्ञानकरणे इन्द्रियादौ, फलरूपे ज्ञाने च वर्तते । तदत्र प्रत्यक्षपदं कि केवलज्ञानस्वरूपमात्रपरम् ? उत ज्ञानकरणपरम् ? उत फलभूतज्ञानपरम् ? तत्राद्ये पक्षेऽव्याप्तिरतिव्याप्तिश्च । तदा हि अकरणस्याफलस्यैव च लक्षणमिदमिति भवति। तथा च फलरूपज्ञाने, इन्द्रिये च प्रमाणत्वेन वर्णनीये लक्षणा
1 पूर्व-क.
प्रत्य-क.
श-ख.