________________
170
[ न्यायम
प्रमाणसम्
[ चार्वाकमतनिरासः ]
प्रत्यक्षाद्विरल कराङ्गुलप्रतीतिः व्यापित्वाद कुशलमिन्द्रियं न तस्याम् । आना मेस्तुहिनजलं जनैः पिबद्भिः तत्स्पर्शः शिशिरतरोऽनुभूयते ऽन्तः ॥ २१८ ॥ संयोगबुद्धिश्व यथा तदुत्था तथैव तज्जा तदभावबुद्धिः । क्रियाविशेषग्रहणाच्च तस्मात् आकुञ्चितत्वावगमो ऽङ्गुलीनाम् ॥ पद्ममोदविदूरदीपक विभाबुद्धिः पुनलैङ्गिकी
व्याप्तिज्ञानकृतेति का खलु मतिर्मानान्तरापेक्षिणी । सङ्ख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकैः तत्सामर्थ्यविवेकशून्यमतिभिः मिथ्यैव विस्फूर्जितम् ||२२०|| इयत्त्वमविलक्षणं नियतमस्ति मानेषु नः
प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते ।
अशक्यकरणीयतां कथयता तु तत्त्वं, सतां समक्षममुनाSSत्मनो जडमतित्वमुक्तं भवेत् ॥ २२१ ॥ इति जयन्तभट्टकृतौ न्यायमञ्जय प्रथममाह्निकम्
चन्दनम् ' इत्येवमादिज्ञानानामपीदमुपलक्षणम् । एवञ्च ज्ञानज्ञेययोर्व्यवस्थैव दुर्वचेति प्रमाणप्रमेयसंङ्ख्या नियमः अशक्यकरणीय एवेति ॥
एतत्सर्वं समाधत्ते -- प्रत्यक्षादिति । इन्द्रियं अकुशलं न किन्तु समर्थमेवेत्यर्थः । चक्षुरिन्द्रियेण स्वाश्रयगतगुणाद्यग्रहणेऽपि स्वगिन्द्रियं स्वाश्रयगतजलादिसंयोगं गृह्णातीत्यनुभवसिद्धम् । तच्चेन्द्रियं शरीरव्यापकम् । अतश्च अङ्गुलिगतवैरल्यं तद्द्वतत्वमिन्द्रियं गृहीतं समर्थमेव । त्वचो व्यापकत्वं साक्षात्स्वसंयुक्तग्राहकत्वं चोपपादयति- आनाभेरिति ॥
तदुत्था - त्वगिन्द्रियजन्या । ' येनेन्द्रियेण यो गृह्यते तेनेव तदभावोऽपि गृह्यते ' इति स्वाश्रयगतसंयोगाभावोऽपि त्वचैव गृह्यते । एवं त्वचा स्वाश्रयगतक्रियाग्रहणस्यापि संभवात् आकुञ्चितत्वग्रहणमपि स्वचैवेत्यर्थः ॥
तत्सामर्थ्य --प्रमाणसङ्ख्यानियमनिश्चयसामर्थ्यम् ॥ अविलक्षणं - सर्वसम्मतम् । सतां समक्षमित्यन्वयः ॥ इति प्रथममाह्निकम्