________________
168
(न्यायमधरी मनिर्दिष्टप्रवक्तृकप्रपादपरंपरा चैतिखम् ; 'पटे पक्षः प्रतिवसति' इति। न चायमागमः ; आप्तस्योपदेष्टुरनिश्चयादिति ॥
[संभवैतिहो भनुमानरूपे एव] 'तदिदमनु'पपन्नम्भिन्नः संभव एष न ह्यनुमितेराख्यायि खार्यां खलु' द्रोणः संभवतीति सेयमविनाभावात् मतिलैंगिकी। ऐतिह्य तु न सत्यमत्र हि वटे यक्षोऽस्ति वा नेति वा. को जानाति? कदा? 'क'? केन कलितं ? यक्षस्य कीदृग्वपुः?॥
सत्यमपि चागमात् पृथङ्नैतिह्यम् , उपदेशरूपत्वात् । आप्त'ग्रहणं सूत्रे न लक्षणायेति वक्ष्यामः ॥
... [प्रमाणसङ्ख्याविषये चार्वाकमतम् ] :
चार्वाकधूर्तस्तु-'अथातस्तत्त्वं व्याख्यास्यामः' इति प्रतिज्ञाय प्रमाणप्रमेयसङ्ख्यालक्षणनियमाशक्यकरणीयत्वमेव तत्त्वं व्याख्यातवान् । प्रमाणसङ्ख्यानियमाशक्यकरणीयत्वसिद्धये च प्रमितिमेदान् प्रत्यक्षादिप्रमाणानुपजन्यानीदृशानुपादर्शयत्
अनिर्दिष्टति। 'मातोपदेशः शब्दः' इति हि लक्षणम् । ऐतिहस्य च भनिर्दिष्टप्रवक्तकत्वात् न मातोपदेशरूपशब्दप्रमाणतेत्यमिमानः ।।
भिन्न इति । अयं भावः - न हि सर्वत्र कारणात् कार्यानुमानमेव ; इदं दन्यं पृथिवीत्वात, रूपवान् रसात-इत्याद्यनुमानानामपि दर्शनात् । भविना भूतयोाप्तिः। अविनाभावश्च कार्यकारणभावतो वा नियतसामानाधिकरण्यावा, घटकघटितभावादिनेवेत्यन्यदेतत् । अतश्च संभवोऽप्यनुमानमेव ॥
ऐतियस्थलेऽपि तादृशवाक्यस्य अर्थसाहित्य शब्द एवान्तर्भा, राहिल्ये चन प्रमाणतेवेत्याह-ऐतिह्यमित्यादि ।
भनिर्दिष्टप्रवक्तकस्य ऐतिह्यस्य कथं आप्तोपदेशरूपशब्दत्वम्' इत्यत्राह - आप्तग्रहण बिति । उत्तरत्र शब्दनिरूपणोपक्रम एवेदं स्पष्टीभविष्यति ॥
प्रमाणन्यादि। प्रमाणानां प्रमेयाणां च संख्यानियमस्य लक्षणनियमस्य चनशक्यकरणीयस्वमित्यर्थः। प्रमाणानुपजीव्यान्-प्रमाणानधीनान् ।
तदनु-ख. अतः-ख. 'च-ख. 'ग्रहणमत्र-क.