________________
पातिकम्। संभवैति ययोः प्रमाणान्तरत्वाभावः
JAST से एवाधिशून्यत्वात् अत्यन्ताभावतां गतः । अपेक्षाभावता तस्य देशोपाधिनिबन्धना । २१० ॥ .. - सामर्थ्य पूर्वसिद्धं चेत् प्रध्वंसे तदभावधीः । नो चेत् तर्हि विशेषोऽस्य दुर्लभः प्रागभावतः ॥ २११॥ उत्पन्नस्य विनाशो वा तदनुत्पाद एंव वा।
अभावस्तत्त्वतः, अन्ये तु भेदास्त्वोपाधिका मताः ॥ २१२ ॥ तस्मादभावाख्य मिदं प्रमेयं, तस्येन्द्रियेण ग्रहणं च सिद्धम् । अतः प्रमाणेषु जगाद युक्तं चतुष्टमे'षां' मुनिरक्षपादः ॥ २१३ ॥
[संभवैतिर्थी प्रमाणान्तरे ननु ! नाद्यापि चतुष्टुमें षा'मवतिष्ठते ; संभवैनिहो इति द्वयोः प्रमाणान्तर भावात् ॥
संभवों नाम-समुदायेन समुदायिनोऽवगमः ; संभवति खाद्रोणः, संभवति शते सहस्रमिति ॥ प्रतीतिः प्रागभावः, 'अयं न' इति प्रतीतिश्च अन्योन्याभावः इतीयानेव विशेषः । अवधिशून्यः--कालाधवधिशून्यः । समवायिकारणे प्रागभावप्रध्वंसयोः प्रतीति:, इतरत्र च अत्यन्ताभावप्रतीति: इति खलु विवेकः । तत्र समवायिकारणे आगामितायाः, गततायाश्च प्रतीत्या तावुभावभावौ अवधिमन्तौ । अत्यन्ताभावस्तु न तथा, न हि भूतले घटो न' इत्यत्र भूतले. घटोत्पत्तिः, तत्प्रध्वंसो वा; तयोरुपादानगतत्वात् । अतः अवधिशून्यः - अत्यन्ताभावः । अंत एवेमं त्रैकालिकाभावं व्यवहरन्ति । यद्यप्येवं एषां अस्ति सूक्ष्मो भेदः, अथापि निषेधाधिकरणभेदादेव तदुपपत्ती व्यर्थः पार्थक्यकल्पनमिति भावः । प्रागभावप्रध्वंसापेक्षयाऽत्यन्ताभाववैलक्षण्यरक्षणायैव 'ध्वंसप्रागभावाधिकरणे नात्यन्ताभावः' इति प्राचीना: । 'तयोविरोधे मानाभावः' इति:च नवीनाः। एषां दृष्टयैव त्रयाणामेकजातीयतासंभवो ज्ञेयः । : अपेक्षाभावश्चानुपदमेवोपपादितः। तस्य -प्रागभावस्य, अत्यन्ताभावात्मकप्रागभावस्व वा। निष्कृष्य वदति-उत्पन्नस्येत्यादि। प्रमेयं-सिद्धं इत्याकर्षः ॥ ..
समुदायेनेति-भनेनास्यानुमानाद्वैलक्षण्यसिद्धिः । अनुमान हि कार्यात् कारणादेः । न ह्यन तथा समुदायसमुदापिनो: वक्तुं शक्यमित्यभिमानः ॥
तत-ख. व-ख. रा-क.