________________
166
अभावप्रकरणम्
प्रसिद्धिश्व परित्यक्ता, न चाभावः पराकृतः । उपेक्षितश्च भाष्यार्थः इत्यहो नयनैपुणम् ॥ २०६ ॥ अलं च बहुनोक्तेन विमर्दोऽत्र न शोभते । महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः ॥ २०७ ॥ तस्मात् 'नास्ति' इति प्रत्ययगम्योऽभाव इति सिद्धम् ॥
[अभावप्रभेदाः ]
चतुर्विध
स च द्विविधः - प्रागभावः, प्रध्वंसाभावश्चेति । इत्यन्ये इतरेतराभावः, अत्यन्ताभावः, तौ च द्वाविति ।
षट्प्रकार इत्यन्ये - अपेक्षाभावः, सामर्थ्याभावः, ते च चत्वार
इति ॥
[प्रागभावादीनां स्वरूपाणि ]
———
[ न्यायम
तत्र च -
प्रागात्मलाभान्नास्तित्वं प्रागभावोऽभिधीयते । उत्पन्नस्यात्महानं तु प्रध्वंस इति कथ्यते ॥ २०८ ॥ प्रागभावादन्ये तु भिद्यन्ते परमार्थतः ।
स हि वस्त्वन्तरोपाधिरन्योऽन्याभाव उच्यते ॥ २०९ ॥
"
•
प्रसिद्धिश्व परित्यक्तेति । तथा च बृहती अस्ति चेयं प्रसिद्धिः मीमांसकानां षष्ठं किलेदं प्रमाणम्' इति । न चास्य ग्रन्थतो लोकतश्व प्रमाणताऽवसीयते । अतो न विद्मः प्रसिद्धेः किं बीजमिति... वटयक्षप्रसिद्धिवत् " इति । 'वयक्षप्रसिद्धिवदिति । व्यामोहपूर्विकेयं प्रसिद्धिरिति यावत्' इति च पञ्चिका । 'अलं' इत्यादिरूपहासोक्तिः ॥
द्विविधः - इति स्वमतेन । अनुपदमेतद्विव्रियते इतरेतराभावःअन्योन्याभावः ॥
अपेक्षाभावः - इदानीमत्र घटोऽस्ति, तत्र तु नास्ति इत्येवं देशकालापेक्षया प्रतीयमानः । एतत्प्रक्षे वायाँ रूपाभावादिरेव अत्यन्ताभावः । सामर्थ्या: - बीजादौ अङ्करकरणाकरणयोर्निर्वाहाय । तेन च कुर्वद्रूपत्वनिराकरणम् । एवं बह्रौ दाहतदभावनिर्वाहाय च । तेन च शक्तिनिराकरणम् ॥
भावः
आत्मलाभात् प्राक् इत्यन्वयः । अन्ये - प्रध्वंसात्यन्तान्योन्यापेक्षासामर्थ्याभावा: । उक्तमर्थमुपपादयति स हीति । ' अत्र न' इति