________________
भाडिकम् १] भभावानभ्युपगमे पापककपनम्
166 [अभावानभ्युपगमे बाधकम् ] अनिष्यमाणे चाभावे भावानां प्रतियोगिनि । नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ॥ २०१॥ मुद्रादेश्च किं कार्य ? कपालपंटलीति चेत् ।
घटम्त_विनष्टत्वात् स्वकार्य न क ोति किम् ? ॥ २० ॥ अदर्शनादिति चेत्;
तदानीमेव दृष्टस्य स्थिरस्यामुष्य किं कृतम् ?
सर्वेन्द्रयादिमामग्रीसन्निधानेऽप्यदर्शनम् ॥ २०३ ॥ तस्मात् तदभावकृतमेव तदानीं तस्यादर्शनम् ॥
स्वप्रकाशा च नास्तीति संिित्तर्भवतां मते। न.निरालम्बना चेयं अस्तीति प्रतिपत्तिवत् ॥ २०४॥ विकल्पविषयाः शब्दा यथा शौद्धोदनेगृहे। .
गीयन्ते भवता नैवमिति नञ् च्यमुच्यताम् ॥ २०५ ॥ प्रतियोगिनि-विरोधिनि। एषां-भावानाम् । प्रागभावप्रध्वंसाभावयोरेव. पूर्वतरावधिरूपत्वेन, तयोरभावे पूर्वोत्तरावध्यभावसिद्धया भावानां नित्यत्वमेव स्यादिति । ननु अभावानभ्युपगमेऽपि बौद्धयथा भावानां नित्यत्व वारित, तथा वयमपि । प्राभाकरा:) वारयामः इत्यत्र, नर्हि तहदेव भावानां क्षणिकत्वमभ्युपगन्तव्यम् । ने हि अहेतुविनाशवादिनः वस्तूनां क्षणिकत्वं स्वभाव इति वदन्ति इत्याह-न ह्यत इति ॥ . अदर्शनादिति। विद्यमानोऽपि घट न किञ्चित्करोति, तत्कार्यस्यादर्शनादिनि भावः । अदर्शनं किंकृतमित्यन्वयः। तथा च तत्सत्त्वे किं प्रमाणमिति भावः ॥
स्वप्रकाशा चेत। 'नास्ति' इति संवित्तिरित्यन्वयः । गुरुमिः ज्ञानस्य स्वप्रकाशस्वमुच्यते। 'भस्ति इति प्रतिपत्तिः यथा न निरालम्बना, तथा 'नास्ति' इति प्रतीतिरपि न निरालम्बना। अतश्च विषयो वक्तव्य:। न च बौद्धवत् असद्विषयत्वं वक्तुं शक्यम् , तर्हि वेदजन्यज्ञानस्यापि निर्विषयत्वसंभवात् वेदस्यैवाप्रामाण्यापत्तेः । अतः नम्वाच्यं किम् ? उज्यताम् ॥