________________
आह्निकम् १]
प्राभाकरमतनिरासः
[बौद्ध मतनिरासोपसंहारः ]
तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् ।
न ह्ययवहाराय कल्पन्ते ऽनुपलब्धयः ॥ १९३ ॥ न स्वभावानुमाने च तदन्तर्भावसम्भवः । मेयं पृथगभावाख्यं अमूषामुपपादितम् ॥ १९४ ॥ कारणानुपलब्ध्यादेः बाढमस्त्वनुमानता । स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥ १९५ ॥
163
या चेयमेकादशानुपलब्धिवधूशुद्धान्तमध्ये विरुद्धव्याप्तोपलब्धिरुदाहृता - "न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापे'क्षणात्' इति — सेयं इदानीमेव साध्वी दूषिता; विस्तरस्तु क्षणभङ्गपक्षे दूषयिष्यते ॥
[प्राभाकरमत परिशीलनम् ]
यैस्तु मीमांसकैः सद्भिरभावो नाभ्युपेयते । प्रमादेनामुना तेषां वयमप्यद्य लज्जिताः ॥ १९६ ॥ घटो हि न प्रतीयते, न तु तदभावः प्रतीयते इत्येवंवदद्भिरेभिदर्शनादर्शने एव पदार्थानां सदसत्त्वे इति कथितं स्यात् । एतच्चा
ग्राह्यत्वादभावस्य प्रत्यक्षत्वमेवेत्याह-न स्वभावानुमान इति । तत्र हेतुमाह - मेयमिति । अमूषां - अनुपलब्धीनाम् । केषाञ्चित्वभावानामनुमेयत्वमिष्टमेवेत्याह- कारणेति ॥
रूपत्वस्य
एवं कारणानुपलब्ध्यादेः अनुमानेऽन्तर्भावस्य स्वभावानुपलब्धेः प्रत्यक्षच कथनेन पूर्वोक्तैकादश । नुपलब्धीनां सम्मतत्वं सिद्धमिव । एवं सति विरुद्धव्याप्तोपलब्ध्या क्षणिकत्वमपि भावानां सिद्धयेत् इति चेत् . तत्राह - या चेति । सेयं साध्वी इदानीमेघ दूषिता इत्यन्वयः ।
1
ध्वंसस्य मुद्गरादिसापेक्षत्वस्य स्थापितत्वादिति शेषः ।।
यैः प्रभाकराद्यैः । तेषां वैदिकमूर्धन्यत्वात् सद्भिरिति ॥ दर्शनादर्शने इति । 'न तु तदभावः प्रतीयते ' इत्यनेन हि अभावाप्रतिपत्तिमात्रात् अभावापलापः प्रतीयते तच्चायुक्तमिति भावः ॥
2 नपे - ख.
नाधु-ख.