________________
1162
अभावप्रकरणम्
.. न्यायमञ्जरी तदुत्पादस्वभावे हि न किश्चिन्मुद्रादिना । अतदुत्पादकत्वेऽपि न किञ्चिन्मुद्रादिना ॥ १९० ॥ मुद्रोपनिपाताच्च यात्पन्नं क्षणान्तरम् । घटक्षणस्य किं वृत्तं? येन नाभाति पूर्ववत् ॥ १९१ ॥ नन्वस्याभवनं वृत्तं, स एवार्थोऽयमुच्यते ।
घना किमपराद्धं 'वः' किं वाऽप्युपकृतं ब्युटा ॥ १९२ ॥ ननु! उक्तं न तस्य किञ्चिद्भवति, न भवत्येव केवलमिति--- तदयुक्तम्-यदसो न भवति स एवास्याभावः॥ .. १ . - ननु! स न, न तु तस्याभावः-मैवम्-स नेतिशब्दयोनियोश्च विषयभेदात्। स इति ज्ञानस्य स्मर्यमाणो घटादिविषयः नेति तु ज्ञानस्य अभावो भूमिरित्यलमलीक विदग्धविरचितविफलवक्रवचनविमर्दैन ।
तदुत्पाद:-विजातीयसन्तत्युत्पादकत्वम् । अतदुत्पादकत्वेऽपिविजातीयसन्तत्यनुत्पादकस्वभाववत्त्वेऽपि । . उभयथा च मुद्रव्यापारो व्यर्थ एवेत्यर्थः । मुद्रेत्यादि । ननु मुद्रेण कपालरूपक्षणान्तरं नूतन मुत्पादितम् ; न तु पूर्वक्षणस्य, तच्छक्तेर्वा नाशः अनेन कृतः इति चेत् ? तर्हि घटक्षणः कुत्र गत:? न कुत्रापीति चेत्, पूर्ववत् कुतो नोपलभ्यते ? ननु घट एतावत्पर्यन्तं भवनासीत् , इदानीमस्य अभवनमेव संवृत्तं, अतो नोपलभ्यत इति चेत्, अहो मेधाविन् ! घट्टकुट्यां प्रभातम् !! ‘अभावः' इति घजन्तेन यं वयं अब्रम, स एव अभवनम्' इति ल्युडन्तेन त्वयोच्यत इति महान् भेदः ! इति भावः॥ ... न तस्येति। घटस्य न किञ्चिद्भवति ; घटो न भवतीत्येतावन्मात्रमित्यर्थः ॥
नन्विति । स नेत्येतावदेवोच्यते । न तु किञ्चिदस्तीति । अतः कथमभावसिद्धिरित्यर्थः । सैव प्रतीतिरभावसाधिकेत्याह-स नेतीति । ज्ञानभेदसाधकः शब्दभेदः इति सूचनाय, दृष्टान्ताय च-शब्दयोरिति ॥
एवमभावाख्यमतिरिक्तं प्रमेयं प्रसाधितम् ।... अथ तत्प्रमाणभूताया अनुपलब्धेरनुमानेऽन्तर्भावः न संभवत्येव, किन्तु अनुपलब्धिसहकृतन्द्रिय
बा-ख.