________________
161
पातिकम् १]
अमावस्य वस्तुत्वम्
भिवनधमैवाभावः ___यत्त-भवनधर्मा ? अभवनधा वा ? इति विकल्पितम्-तत्र भवनधर्मेवाभावोऽभ्युपगम्यते। भवनधर्मत्वेऽपि चाभावो न भावान भिद्यते ; प्रतिभासभेदस्य रूपरसादि''पदर्शितत्वात्। भवनधर्मत्वं चास्य हेत्वन्वयव्यतिरेकित्वात् भवति। घटो हि मृत्पिण्डदण्डादी'निव जन्मनि, विनाशेऽपि मुद्रादीननुवर्तते हेतून् । - विजातीयसन्ततिजननपक्षेऽपि सशसन्तानजनिकायाः शक्तेरभावः क्रियत एव । अन्यथा मुद्रा पनिपातेऽपि विजातीयेव सजातीय सन्ततिरपि जायेत । सजातीयविजातीयोभयसन्ततिजनन· शक्तियुक्तो घट इति चेत् ; मुद्रादियोगात् पूर्वमपि कपालसन्तति. जननम् , तद्योगेऽपि वा सति घटसन्ततिजननमनियमेन दृश्यतेति । विजातीय क्षणोत्पादनस्वभावे च घटे मुद्गरादिवैय्यर्थ्यमेव स्यात् ॥ ___ हेत्वन्वयव्यतिरेकित्वात्-हेतुसत्त्वे अभावसत्त्वं, हेत्वभावे भभावस्याप्यभाव इत्यन्वयन्यतिरेकवत्त्वात् । एवञ्च कारणाधीनत्वात् 'भवति' इति प्रतीतिविषयत्वमप्यस्त्यभावे, ' इदानीं घटध्वंस उत्पन्नः' इति प्रतीतेरिति ॥
ननु! मुद्रादीनां अभावजनकत्वं नास्ति, किन्तु विजातीयसन्तानजनकत्वमेवेति पूर्वमव (147 पु.) उक्तम् । एवञ्चाभावः न हेतुजन्यः इत्यत्राहविजातीयेति । सर्वस्यापि भावस्य स्वसदृशसन्तानारम्भकशक्तिमत्वमेव वक्तव्यम् । अन्यथा घटसन्तानात् पटसन्तानस्याप्युत्पत्त्यापत्तिः। एवञ्च घटसन्तानजनकशक्तिमत: घटक्षणात् कपालरूपविजातीयसन्तानोत्पत्तिकाले पूर्वविद्यमानायाः शक्तरुपमर्दः अवश्यं वाच्यः। एवञ्च शक्तिनाशस्य मुद्गरहेतुकत्वं सिद्वमिति सिद्धमभावस्य हेतुजन्यत्वम् । न च सजातीयविजातीयोभयसन्तान. जननशक्तिर्वर्तत एव घटादिक्षणस्येति उभय वेधशक्तिसत्वादुभयं उपपद्यते, न तदर्थ अन्यतरशक्तिनाश: अपेक्षणीयः इति वाच्यम् ; एवं तर्हि पूर्व घटपरंपरा, मनन्तरं मुद्गरनिपातात्परमेव कपालपरंपरेति व्यवस्थैव दुर्वचा। न च मुद्गरनिपातापग्मेवेति न, किन्तु क्षणस्यैव एवं स्वभाव इति शवयम् ; एवं तर्हि मुद्रादीनां वैग्यापात:। संपूर्णस्वभाववादे च पूर्वोत्तरक्षणयोरपि कार्यकारणभावो न स्यादिति अघहकार्थः ॥
NYAYAMANJANI
11