________________
160 अभावप्रकरणम्
न्यायमचरी यद्वा' भावेऽप्येष 'न नियमः। न ह्ययं भवति ---'यत्' सम्बद्धं 'तत् विशेषणमेव । पादपीडिते, शिरसि वा धार्यमाणे दण्डे, 'दण्डी' इति प्रत्ययानुत्पादात् । नाप्येवम्, यत् विशेषणं तत् सम्बन्धमेति; समवायस्य सत्यपि विशेषणत्वे सम्बन्धान्तराभावात् । तस्मात् सम्बन्धान्तररहितोऽपि, प्रतिबन्ध इव, वाच्यवाचकभाव इव, विशेषणविशेष्यभावः स्वतन्त्र एव' सम्बन्धः तथाप्रतीतेरवधार्यते ॥
उभयोरुभयात्मकत्वात् कदाचित् कस्यचित् तथा प्रतिभासात् पुरुषेच्छानुवर्तनेन व्यत्ययप्रत्यय सत्त्वेऽपि न दोषः। तस्मात् विशेषणविशेष्यभाव एव सम्बन्धो 'देशेन' भूतलादिना सहाभावस्य ॥
एवं कालेनापि सह स एव वेदितव्यः। क्रियया कर्तृ'स्थया वा गमनादिकया, कर्मस्थया' वा मेदनादिकया सह संयोगाद्य'भावेऽपि विशेषणविशेष्यभाव एव सम्बन्धः, तद्वदभावस्यापि भविष्यतीति ॥
प्रतियोगिना तु सह विरोधोऽस्य सम्बन्धः । अयमेव च विरोधार्थः, यदेकत्रोभ'योर"समावेशः । अतश्चैकविनाशे न सर्वविनाशः ; घटाभावस्य घटेकप्रतियोगिकत्वात् ॥ .
पादपीडिते इत्यस्य दण्डे इत्यनेनान्वयः । तस्मात-विशेषणविशेष्यभावस्य सम्बन्धान्तरानधीनत्वेऽपि स्वतस्सम्बन्धत्वसम्भवात् । अत्र दृष्टान्तमाह--प्रतिबन्ध इति। वह्निधूमयोर्यथाव्याप्यव्यापकभावः तथा प्रकृतेऽपि । वह्निधूमयोः यद्यपि संयोगोऽस्ति तथापि स न व्याप्यव्यापकभावप्रयोजकः । तादृशोऽपि सम्बन्धः शब्दार्थयोर्नास्तीति विशेषः ॥
'पुरुषेच्छया विपर्यस्यन्तमप्येनं पश्याम: ' (पु. 146) इत्येतत्समाधत्ते-- उभयोरिति। किमुत ! पुरुषापेक्षा दण्डो विशेषणं, रूपाद्यपेक्षया तु तदैव दण्डो विशेष्य:-'नीलदण्डवान् पुरुषः' इत्यादी इत्यप्यूह्यम् ॥
___149 पुटे उक्तं समाधत्ते अतश्चेति ॥
न चं, यश्च-क. नि-क. तत्-क. 'यत्-क. एव-क. स्खे-ख. ' देशे-ख. भावस्म सम्बन्धः-ख. ' स्सया-ख. 10 दि-ग. " यो:-क.