________________
अभावस्य सम्बन्धोपपादनम्
प्रामाण्यं वस्तुविषयं द्वयोरर्थमिदां जगौ । प्रतिभासस्य चित्रत्वात्, एकस्मित्त योगतः ॥ इति ॥
'तस्मात् 'अस्ति' इति 'प्रतीतेरिव' भावः, 'नास्ति' इति प्रतीतेरभावो 'भूमिरित्यभ्युपगम्यताम् ॥
अथवा विज्ञानवाद एव सुम्पटमास्थीयताप । अन्तरावस्थानं तु न सांप्रतम् । अर्थक्रियासामर्थ्यमपि तस्य दर्शितमेव ॥ स्वज्ञानाख्य क्रियाशक्तिरमुष्य दुरपह्नवा । अर्थकियाsन्यजन्या तु न भावेनापि जन्यते ॥ १८८ ॥ एवं च सति यः पूर्व शक्तिवादोऽत्र वर्णितः । स प्रत्यक्षविरुद्वत्वात् कण्ठशोषाय केवलम् ॥ १८९ ॥ [ अभावस्य सम्बन्धोपपादनम् ]
तथा, सम्बन्धाभावादिति यदुक्तम्-तत्र देशेन सह तावत् अभावस्य विशेषणविशेष्यभावः सम्बन्धः । स तु सम्बन्धान्तरमूल इति भावेऽयं नियमः, नाभावे ॥
आह्निकम् १]
·
.
159
श्वेन, यदि भावाभावप्रतीत्योर्भेदः तर्हि भावाभावयोरपि भेदः दुर्निवार' एवेति सिद्धान्त्याशयः ॥
प्रामाण्यमिति । वस्तुविषयं प्रामाण्यं द्वयोरर्थयोर्भिदां जगौ - न्यरूपयत् । कुतः प्रतिभासस्य चित्रत्वात् इति । प्रतीतेर्भावः भूमिरिव इत्यन्वयः । भूमिः विषयः ॥
विज्ञानातिरिक्तभावपदार्थमङ्गीकुर्वतो वैभाषिकस्य तवं प्रतीति साम्ये अभावानङ्गीकरणमयुक्तमित्याह —– अथवेति । तस्य- अभावस्य । दर्शितमिति । ' सुखदुःखसमुत्पत्ति:' इत्यादिना (पु. 157) पूर्वमित्यर्थ: ॥ ननु न सर्वेषामभावानां सुखदुःखाद्यर्थक्रियाकारित्वमनुभवसिद्धं -- इति शङ्कायां स्वविषयक ज्ञानाख्यार्थ क्रियाकारित्वमन्ततः सर्वेषामभावानां वर्तत एव । भावानामपि षाञ्चिदेवमेव भवताऽपि वक्तव्यमित्याह - स्वज्ञानेति । अन्यजन्या - ज्ञानातिरिकयप गया। एवमतिरिक्तोऽभाव, तस्य कारणत्वमपि यदा विद्धं तदा प्रतिबन्धका भावस्य अभावरूपत्वेन कारणत्वासंभवात् शक्तिसिद्धिरित्यपि न युज्यत इति स्मारयति - एवश्चेति ॥
1 'प्रतीनेरेव क. प्रतीतिरेव-ख.
ऽभूदि.