________________
158
अभावप्रकरणम्
[ न्यायमञ्जरी
उत्पद्यते च, अर्थज्ञानं च जनयति, जातेन तेन गृह्यते च-- इत्यासां क्रियाणामेककालत्वाभावात् । तस्मात् अकारक एवं भावः प्रतिभासते ॥
आकारार्पणपक्षं च प्रतिक्षेप्स्यामः । एवं भाववदभावोऽप्यजनक: प्रतिभासताम् ॥
अस्माभिस्तु भाववदभावोऽपि ज्ञानजनन समर्थ इयते । न हि . निश्शेषसामथ्यरहितत्वमभावलक्षणम; अपि तु नास्तीतिज्ञानं, गम्यत्वम् । सत्प्रत्ययगभ्यो हि भाव इयते, असत्प्रत्ययगम्यस्त्वभाव इति । तदिदमुक्तम्- 'सदसती तस्वम्' इति ॥
[[ भावाभावयोर्विशेषः ]
!
ननु ! भाववदेष ज्ञानजनकस्सन् अभावो न भावाद्विशिष्यते"। अहो निपुणदर्शी देवानांप्रियः ! प्रतीतिभेदश्चास्ति ? 'न च' प्रतीयमानौ भावाभावौ भिद्येते' इति कथमेवं भवेत् ? अपे रे मूढ ज्ञानजनकत्वाविशेषेऽपि रूपरसौ कथं भिद्येते ? प्रतीतिभेदादिति चेत्; भावाभावावपि जनकत्वधर्म सामान्येऽपि प्रतीति भेदादेव भिद्येयाताम् । न हि प्रतिभः स्यभेदमन्तरेण प्रतिभासभेदो भवतीति भवताऽप्यभ्युपगतम् । यथोक्तम्' -
ज्ञानापेक्षया तु त्रिक्षणत्वमित्याह - उत्पद्यते चेत्यादि । अकारक:अकिञ्चित्कारी । कारणतारहित इति यावत् ॥
ननु समाहितोऽयं दोषः धर्मकीर्तिना प्रमाणवार्तिके --' भिन्नकालं कथं ग्रा ? इति चेत् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा: ज्ञाताकारार्पणक्षमम्' इति – इत्यत्राह – आकारार्पणपक्ष मिति ॥
-
उक्त मिति । न्यायभाष्य इति शेषः ॥
न विशिष्यत इति । उभयोरपि ज्ञानजनकत्वाविशेषादित्यर्थः समाधने - अहो इति । देवानांप्रेिय इति । 'देवानांप्रिय इति च मूर्खे' इति वार्तिकादलुक् । न चेति । न मियते इति च कथमित्यन्वयः । नीलप्रतीतेः पीताद्यभावप्रतीतिरूाताया उक्तत्वेन पीताभावम्यैव नीलरूपत्येन भावातिरिक्तः अभावो नास्त्येव तन्मते । परन्तु विषयभेदमन्तरा प्रतीतिभेदस्य सर्वथा दुर्निरूप
३ न भिद्येते - ख.
1 प्रयेत क.
तत्र - ख.
4 गतमूख.