________________
आह्निकम् १]
अभावः न निरुपाख्य:
'सेय' भवस्यापि प्राप्तिर्भवत्येव । नीलं हि प्राप्यमाणं तदभावाविनाभूतपीतादिव्यवच्छिन्नरूपं प्राप्यते । सा चेयं तथाभूतनीलप्राप्तिभवन्ती इतराभावाप्तिरपि भवति, अन्यथा हि नीलगतरेव न स्यादिति । एतच्च लाक्षणिक विरोधमाचक्षाणर्भवद्भिरेवोपगतम् ॥ सुखदुःखसमुत्पत्तिरभावे शत्रु मित्रयोः । कण्टकाभावमालक्ष्य पदं पथि निधीयते ॥ १८५ ॥ प्रागुत्पत्तेर्घट भावं बुद्धा तत्कारणादरः । व्याध्यभावपरिच्छेदात् भैषज्यविनिवर्तनम् ॥ १८६॥
157
हा भाव तष्ठानव्यवहारपरम्पराम् । पश्यन् अभाव को नाम तिह्नवीत सचेतनः ॥ १८७ ।। [ अभावः न निरुपाख्यः ]
नंनु ! नाजनक मालम्बनं भवति ज्ञानस्य । अभावस्तु सकलोपाख्यविनिर्मुक्तस्वरूप इति न ज्ञानजननपटुः । अतः कथं तदालम्बनम् ? उच्यते--- सौगतानां तावत् न किश्चिजनकं वस्तु प्रतिभासते । द्वित्रिक्षणावस्थितिप्रसङ्गेन क्षणभङ्गव्रतविलोपप्रसङ्गात् ।
अभावप्राप्तये. यतते ? इत्यत्रानुभवं प्रमाणयति -- नीलं हीति । अन्यथा - यदि नीलप्राप्तिः पीताद्यभावप्राप्तिरूपा न स्यात्, तर्हि नीलार्थ प्रवृत्तः पीतप्राप्तावपि तृप्येतेत्यर्थः । लाक्षणिकं विरोधमिति । लक्षणवाक्येष्वपि हि 'कल्पनापोढं ' 'अभ्रान्तं ' इत्यादिपदैः लक्षणमपातरव्यावृत्तिरूपमम्युपगतमेव । एवञ्च सिद्धः इतरेतराभाव इत्यर्थः ॥
अभावानां भाववदेवार्थक्रियाकारित्वमप्यनुभवसिद्ध मित्याह - सुखेत्यादि । शवभाव: सुखकारणं मित्राभाव: दुःखकारणमित्यन्वयः । सचेतनः - विवेकी ॥ ननु ! लक्षणं इतरव्यावृत्तिरूपमेव । परन्तु व्यावृत्तेः तुच्छ चेन न पदार्थत्वमिति शङ्कते नन्विति । ज्ञानस्य अजनकं ज्ञानस्यालंबनं न भवतीत्यन्वयः । अधिपति मँह कार्यालम्बनममनन्तरप्रत्ययेषु आलम्बनप्रत्ययः विषय:, स एव ज्ञानजनक इति तन्मतम् । क्षणिकवादे जन्यजनकभाव एवानुपपन्न इति, कथं ज्ञानजनकत्वमर्थानामित्याह -- उच्यत इत्यादिना । द्वित्रीति । कार्यक्षगे कारणसत्वस्यावश्यकत्वादिति भावः । उपत्यपेक्षया द्विक्षणत्वं,
1 a