________________
156 अभावप्रकरणम् . .
न्यायमजरी स्यावश्यभावित्वात्। तदतिरिक्तं तु प्रतिभासमानं घटविविक्ततेति वा कथ्यतां, घटाभाव इति वा! नात्र वस्तुनि विशेषः ॥
[अभावप्रतीतिर्न मिथ्या] ननु ! 'घटो नास्ति' इति विकल्पमात्रमेतत्-न-दर्शनानन्तरप्रवृत्तत्वेन विधिविकलातुल्यत्वात् ॥
यथाऽनुभवमुत्पत्तुमर्हन्ति किल कल्पनाः ।। प्रतिषेधविकल्पस्तु न विध्यनुभवोचितः ॥ १.२॥
[अभावविकल्पाः भावविकल्पतुल्या एव] ननु ! नैव विकल्पानां वयं प्रामाण्यवादिनः। 'काम' विधिविकल्पानामपि मा भूत् प्रमाणता ॥ १८३ । । प्रामापं दनानां चेत् त्वविकल्पानुसारतः। ‘इहापि तेषामेवास्ति त्वधिकल्पानुसारतः ॥ १८ ॥
वस्तुप्राप्तया विधिविकल्पानां प्रमाणव्यवहार इति चेत , इहापि तत्प्रप्तयव निषेधविकलानामस्तु प्रामाण्यव्यवहारः। किमत्र वस्तु प्राप्यत ? इति चेत् , तत्रापि - किं प्राप्यते? नीलमिति चेत् !
प्रवृत्तत्वेन- उत्पन्नत्वेन । ननु कथमुभयोस्तौल्यम् ? घटोऽस्तीति विकल्प: अन्य ; अन्यश्च घटो नास्तीति - इति शङ्कायामाह-'यथेति । यद्यपि प्रतिषेधविकल्पः, विधिविकल्पश्च विषयतो विलक्षण एव। अथाऽपि घटपटविकलयोरिव अनुभवत्वेन तौल्यमप्यनुभवसिद्धमेवापलपितुमशक्यमिति भावः ॥
नन्विति । तथा च प्रतिषेधविकल्पा: अर्थशून्या इत्यर्थः । समाधत्ते-- काममिति । तथा च नीलादिकमपि न सिद्धयेदित्यर्थः । शङ्कते--प्रामाण्यमिति। निर्विकल्पपृष्टभावित्वात् विधिविकल्पानां न प्रतिषेत्र विकल्पतौल्यमिति चेत् - प्रकृतेऽपि स समाधि: कुतो न स्यादिति समाधत्ते-इहापी त ॥
___ ननु विधिविकल्पैः प्रवर्तमानः घटादिकं वस्तु प्रामोतीति युक्तं विधिविकल्पानां प्रामाण्यमिति शङ्कते-वस्तुप्राप्तयेति । तत् प्रकृतेऽपि तुल्य. मित्याह-इहेति । अत्र--अभावविकल्पाधीनप्रवृत्तिस्थले। तत्र - भावविकल्पाधीनप्रवृत्तिस्थले। नीलं-घटादि । ननु केयमभावप्राप्तिः? को वा
1कथं-क. तदि-ग.