SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अधिकरणमात्र नाभावः [न भूतलमा अभाव: ] ननु ! घटविविक्तभूतलोपलम्भभावे घटानुपलम्भ इत्युक्तम्तदयुक्तम्- - केयं घटविविकता ? सा भूप्रदेशादभिन्ना ? भिन्ना वा ? अभेदे भूप्रदेशाविशेषात् घटसन्निधानेऽपि 'घटो नास्ति' इति प्रतिपत्तिर्जायेत । मेदेऽपि नाम्नि विवादः स्यात् ॥ आडिकम् १] भेदाभेदेन चिन्त्या च घटादपि विविक्तता । अभेदे घट एव स्यात् भेदे चाभाव एंव सा ॥ १८१ ॥ तत्' इह घटो नान्ति' इति घटविविक्तभूतलालम्बनतायासंविदः, 'इह' इति तावदस्मिन् संविदंशे 'देश आ'लम्बनमित्यविवाद एव ' इह घटोsस्ति' इति भावप्रतीतिसमयेऽपि तत्र तदवभासाभ्युपगमात् । 'घटो नास्ति' इत्यत्र तु यदवभासते, तत् न भूतलमात्रमेव; 'भावप्रतीति'सम'यवत्' तदतिरिक्त प्रतिभास पूर्वोक्तं ( 153 पुटे) भक्षिपति - नन्विति । विविक्तता, राहित्यं, कैवल्यं वा । घरविविक्तं भूतलमित्यत्र घटविविक्तताख्यः कश्चन धर्मः भूतले अङ्गीक्रियते उत नेति विकल्प्य, द्वितीये उभयोरभेदे घटकालेऽपि घटविविक्तताभूलत्वात् 'घटो नास्ति' इति व्यवहारापत्तिः; यदि च स अतिरिक्तो धर्मः तर्हि सिद्धः भूतातिरिक्तः अभाव इत्याह- केयमित्यादिना ॥ प्रकारान्तरेणापि विकल्प्य दूषयति-- भेदाभेदेने ते । घटातू, तद्विविक्तता, अतिरिक्ता ? न वा ? आधे अभावसिद्धिः । द्वितीये घट एव घटाभावरूपः स्यात् । न चेष्टापत्ति:; तर्हि घटे सत्येव घटाभावप्रतीत्यापत्तिः । भेदाभेदपक्षस्तु व्याहत एवेत्याशयः ॥ 'इह घटो नास्ति ' इत्यस्याः संविदः घटविविक्तभूतलालम्बनतायां सिद्धायामित्यन्वयः । इत्यस्य देशालम्बनत्वे प्रमाणं दर्शयतिइह घटोऽस्तीति । तदवभासेति । देशप्रतिभा नेत्यर्थः । भावप्रतीतिसमयवदिति 'इह घट: ' इत्यत्र यथा इहशब्दार्थापेक्षया घटशब्दार्थः पृथग्भूतः, तथा 'इइ न घट: ' इत्यत्रापि इद्दशब्दार्थापेक्षया न घर इत्यंशः अतिरिक्त एवेति भावः ॥ , 2 प्रतीति-क. 1 आ-क. 165 6 ह 3
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy