________________
161
अभावप्रकरणम्
न्यायमचरी
पिशाचादेस्तु दृश्यत्वनिश्चयोऽनवधारणात् । न शक्योऽनुपलम्भेन कर्तुं नास्तित्वनिश्चयः ॥ १७७ ॥ तत्रापि त्वपिशाचोऽयं चैत्र इत्येवमादिषु । तादात्म्यप्रतिषेधेषु दृश्यत्वं नोपयुज्यते ॥ १७८ ॥ पिशाचेतररूपो हि चैत्रः प्रत्यक्षगाचरः।। ताप्यनिश्चये तस्य किं फलं तद्विशेषणम् ॥ १७९ ॥ इत्यसद्यवहारस्य सिद्धरनुपलब्धितः। न भाववदभावाख्यं प्रमेयमवकल्पते ॥ १८० ॥
बौद्धमतप्रतिक्षेपः] अत्राभिधीयते-हः तावत्सकलप्राणिसाक्षिक संवेदनद्वयमुपजायमानं दृष्टं 'इह घटोऽस्ति' 'इह नास्त' इति। तत्रः विकल्पमात्र संवेदनमनालम्बनम्? आतांशावलम्बनं वा ? इत्यादि यदभिलप्यते, तत् नास्तित ज्ञान 'इच' अन्तताज्ञानेऽपि समानम् । अतो द्वयोरपि प्रामाण्यं भवतु ! 'द्वयोरपि वा मा भृत् !
यत्तु-अस्ती ते ज्ञानं प्रमाणम् इतरत्त्वरमाणमिति कथ्यते - तदिच्छामात्रम् । अस्तीतिज्ञानसमानयोगक्षेमत्वे च नास्तीतिज्ञानस्य विषयश्चिन्तनीयः ।।
सर्वदाऽनुपलम्भात् सर्वदाऽसत्त्वं निश्चीयते। विशाचादेस्तु अस्मादृशैरनुपलंभेऽपि मांत्रिकयोगिप्रभृतिभिरुपलं भात . अनुपलंभ मात्रान नास्तित्वं निश्चेतुं शक्यम् । एवमत्यन्ताभावस्थल एव प्रतियोगिदृश्यत्वमपेक्षितम् , अन्योन्याभावस्थले तुअनुयोगियोग्यत्वमेव । यथा 'चैत्र: पिशाचो न' इत्यादौ हि पिशाचस्यादृश्यत्वेऽपि तद्भेदः चैत्रे सर्वैः गृह्यत एवेति सङ्केपः॥
विकल्पेत्यादि । अनालम्बन एव विकल्पः सर्वोऽपीति माध्यमिकाः, आत्मावलम्बन इति योगाचाराः। आत्मशब्दः स्वशब्दपर्यायः, नैरात्म्यवादिनो हि ते। स्वशब्दश्च संवेदनपरामर्शी। विषयस्य बाह्यत्वात् आत्मांशेत्युक्तम्। परन्तु 'अस्ति' 'नास्ति' इति ज्ञानद्वयमपि विकल्परूपमेव । एवं सति ‘अस्ति' इति प्रतीतिविषयः कल्पितो वाभावः अङ्गीक्रियते, 'नास्ति। इति प्रतीतिविषय भभावः परं नेत्यतिविचित्रमेतदिति ॥ • . (पूर्वपुटात् ). ! इह-क... इयमपि-क.