________________
आहिकम् १] अभावानभ्युपगमेऽपि भ्यवहारनिर्वाह:
153 ननु ! योग्यता भावात्मिका, अनुपलब्धिस्त्वभावस्वभावेति कथमनर्थान्तरत्वम् ?-नैतदेवम्-न ह्युपलब्धिप्रतिषेधात्मिकामभावस्वभावामनुपलब्धिमनुपलब्धिविदो 'वदन्ति', किन्तु प्रतिषेधपर्युदस्त वस्त्वन्तरोपलब्धिमेवार्थाभावस्वभावामिति ॥ __अत एवेदमपि न चोद्यम्-अनुपलब्धेरभावात्मकत्वात् अनुपलब्ध्यन्तरपरिच्छेद्यत्वादनवस्थेति ; यस्मात् वस्त्वन्तरोपलंभात्मिकाऽनुपलब्धिः स्वसंवेद्यैवेति ॥ - [अनुपलंभमात्रात् न अतीन्द्रियाणां अभावच्यवहारः सिद्धयेत्
ननु! अनुपलब्धः असद्यवहारसिद्धौ अदृश्य स्थापि तथात्वं सिद्धयेत्-न-दृश्यत्वधिशेषणोगदानादुपलब्धिलक्षण प्राप्तस्यानुपलब्धेरसद्यवहारः, न यस्य कस्य चिदिति। तत्र
घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् । असत्त्वव्यवहारो हि सिद्धयत्यनुपलब्धितः ॥ १७ ॥
एकान्तानुपलब्धेषु विहायःकुसुमादिषु । . 'दृश्यत्वयोग्यता'योगात् असत्त्व परिनिश्चयः ॥ १७६ ॥
अनन्तरत्वं-भावरूपाया योग्यताया इति शेषः। प्रतिषेधेत्यादि। प्रतिषेधेन पर्युदस्तं व्यावर्तितं यत् वस्त्वन्तरं तदुपलब्धिमेव पूर्ववस्त्वभावस्वभावामित्यर्थः । केवलभूतलोपलंभ एव अभावोपलंभ इति भावः ॥
स्वसंवेद्यवेति । उपलम्भस्य ज्ञानरूपत्वेन तस्य स्वप्रकाशत्वादित्यर्थः ।
अदृश्यस्य -अतीन्द्रियस्य पिशाचादेः। दृश्यत्वविशेषणेति । तथोक्तं हेतुबिन्दौ 'प्रतिषेधसिद्विरपि यथोक्ताया एवानुपलब्धेः' इति । व्याख्यातं च धर्मोत्तराचार्येण-प्रतिषेधव्यवहारस्य सिद्धिः यथोक्ता यादृश्यनुपलब्धिः तत एव भवति' इति ॥ ___ तदानीमदृश्यत्वाविशेषेऽपि घटगगनकुसुमपिशाचाद्यभावानां विशेषानाह--घटादेरित्यादि। कालान्तरे दृष्टस्यैव घटादेः इदानीमनुपलंभादिदानी मसत्त्वमात्रं निश्चीयते, न तु सर्वदाऽसत्त्वम्। गगनकुसुमादेस्तु
1 जानन्ति-क. ३ अदृष्ट-ख. ३ ऽनवधारणात्-ख. (उत्तरपुटे). " स्वा-ग.