________________
1152 अभावप्रकरणम् .
न्यावमजरी . २०. कारणविरुद्धोपलब्धिर्यथा-नैतस्य रोमहर्षदन्तवीणादि. विशेषाः सन्ति, सन्निहितहुत'वह'विशेषात्-इति ॥
११. कारणविरुद्धकार्योपलब्धिर्य था-प्रवृत्तदन्तवीणादि विशेषपुरुषाधिष्ठित 'एष' देशो न भवति, धूमवत्त्वात् इति ।।
__सत्यम् , एकादशविधाऽनुपलब्धिरिहे ष्यते । -: सा त्वसह्यवहारस्य हेतुः नाभावसविदः ॥ १७४ ।।
__ [अनुपलब्धेः स्वभावहेतावन्न वो युज्यते] ननु ! अनुपलब्धेः स्वभावहेतावन्तर्भाव उक्तः, स्वभावहेतौ च साध्यसाधनयोर व्यतिरेक इष्यते। असद्यवहारश्च ज्ञानाभिधानात्मकत्वात् तत एव पृथगिति कथं तद्विषयतां यायात् - सत्यमेवम्-. किन्तु नासद्यवहार स्तया साध्यते', अपि तु तद्योग्यता। योग्यता च न ततोऽन्तरमिति न स्वभावहेतुत्नहानिः ॥..
दशमे-रोमहर्षादिकारणशीतस्पर्शविरुद्धः हुतवहः ॥ .. एकादशे--दन्तवीणादिकारणविरुद्धस्य वह्नः कार्यभूतः धूमः ॥
एकादशविधानुपर ब्धि: असद्व्यवहारस्य हेतुरिष्यत इत्यन्वयः। अभावसंविदा-अभावाख्यप्रमेयनिर्णयस्य । बौद्धमते असद्व्यवहारस्येष्टत्वात् व्यवहारमात्रात् नार्थसिद्धिरित्यर्थः ॥
अन्तर्भाव इति । यद्यपि धर्मकीर्तिना हेतुबिन्दौ 'बीण्येव च लिङ्गानि, अनुपलब्धिः स्वभावकार्ये चेति' इति अनुपलब्धिः पृथगुक्ता; अथापि उत्तरत्र तत्रैव 'अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेधहेतुः' इत्युक्तम् । तेनैव प्रमाणवाति केऽपि 'स्वभावकार्यसिद्धयर्थं ' इत्यादिना हेतुद्वैविध्यं प्रतिपाद्य 'हेतुस्वभाव. न्यावृत्त्यैवार्थच्यावृत्तिवर्णनात् । सिद्धोदाहरणेत्युक्ताऽनुपलब्धि: पृथक् न तु' इत्युक्तम् । तदनुयायिना मोक्षाकरगुप्तेनाऽपि तर्कभाषायां ; प्रथम लिङ्गत्रैविध्यमुक्त्वा ‘ननु ! यद्यनुपलब्धेरपि तादात्म्यतदुत्पत्ती एव सम्बन्धी, कथं तर्हि कार्यस्वभावाभ्यामनुपलब्धेर्भेदः ? प्रतिषेधसाधनात् भेदः, न वस्तुतः' इत्युक्त्वा पूर्वोक्तधर्मकीर्तिवाक्यमेव प्रमाणतयोपन्यस्तमिति ज्ञेयम् । तद्योग्यता-व्यवहारयोग्यता। ततः --वस्तुस्वभावात् ॥
वहाधिष्ठित-ख. ' षत्वात-क. 3 एव-क.
वा-क.. 5 स्साध्यते-क.