________________
इति॥
भाडिकम् १] अभावानभ्युपगमेऽपि न क्षति:
161 ___२. कारणानुपलब्धिर्यथा-नात्र धूमः, दहनानुपलब्धेः-इति ।
३ व्यापकानुपलब्धिर्यथा-'नात्र शिंशपा, वृक्षानुपलब्धेः
४. कार्यानुपलब्धिर्यथा-नात्र निरपवादा धूमहेतवः सन्ति, धूमानुपलब्धेः-इति ॥
५. स्वभावविरुद्धोपलब्धियथा-नात्र शीतस्पर्शः, पावकोपलब्धेः इति ॥ ___६. स्वभावविरुद्धकार्योपलब्धिर्यथा – नात्र शीतस्पर्शः, धूमोपलब्धेः-इति ॥ ____७. विरुद्धव्याप्तोपलब्धियथा - न 'ध्रुव'भावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणात् इति ॥
८. कार्यविरुद्धोपलब्धिर्यथा--नात्र शीतकारणमप्रतिबद्धसामर्थ्यमस्ति, ज्वलनोपलब्धेः-इति ॥ ___९. व्यापकविरुद्धोपलब्धिर्यथा-नात्र तुहिनस्पर्शः, कृशानुदर्शनात् इति ॥
द्वितीये-धूमं प्रति दहनस्य कारणत्वात् कारणानुपलब्धिः ॥ __ तृतीये-शिंशपापेक्षया वृक्ष: व्यापकः ॥ .. चतुर्थे-धूमकारणानां धूमः कार्यः । कारणे सति कार्येण भवितव्यमेवेति न निबन्धः, प्रतिबन्धकाद्यपवादे सति कार्यानुत्पत्तेः । अत: 'अप्रतिबद्धसामर्थ्यानि ' इति न्यायबिन्दूक्तमेव 'निरपवादाः' इत्युक्तम् ॥
पञ्चमे-शीतस्पर्शविरुद्धत्वं पावकस्य ॥ षष्ठे–स्वभावविरुद्धस्य वह्ने कार्य: धूमः ॥
सप्तमे-ध्रुवभावित्वविरुद्वेन अध्रुवभावित्वेन हेत्वन्तरापेक्षणं व्याप्तम्। एतद्विचारः क्षणभङ्गे भविष्यति ॥
अष्टमे - शीतकारणस्य यत् कार्य शीतस्पर्शादि, तद्विरुद्धः ज्वलनः ॥ नवमे-तुहिनस्पर्शव्यापकशीतस्पर्शविरुद्धः कृशानुः॥
नात्र शीतस्पर्शः पावकोप-ख. 'धूमोपलब्वे:-क.
ध्रुव-..'