________________
150
अभावप्रकरणम
[न्यायमभरी
[अतिरिक्ताभावानभ्युपगमपक्षे नमर्थः] नन्वभावप्रतिक्षेपे नमः किंधाच्यं ? उच्यताम् ! नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ॥ १६९ ॥ बौद्धाः खलु वयं लोके सर्वत्र ख्यातकीर्तयः। विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥ १७० ॥ . क्वचिन्नामपदप्राप्तवृत्तिना जन्यते नत्रा। निषेधपर्युदस्ता'न्य विषयोल्लेखिनी मतिः ॥ १७ ॥ ... क्वचित्त्वाख्यातसम्बन्धमुपेत्य विदधात्यसौ । तदुत्तक्रियाऽऽरंभनिवृत्त्युल्लेखमात्रकम् ।। ७२ ॥ अभावानभ्युपगमेऽप्येकादशविधानुपलब्धिनिर्वाहः] . ननु ! चानेन मार्गेण यद्यभावो निरस्यते।
एकादशप्रकारैपाऽनुपलब्धिः क्व गच्छतु ॥ १७३ ॥ १. स्वभावानुपलब्धियथा-नेह घटः, अनुपलब्धेः- इति ॥
बौद्धाः खलु वय मिति । बुद्ध्या परिकल्पितेन वस्तुनैव व्यवहार निर्वहामः । अतो वयं बौद्धाः । अत: सर्वस्यापि शब्दस्यार्थः वास्तविक एवेति न नियमः । एवञ्च अभ वाख्यवस्तुन अभावेऽपि नव्यवहारो युज्यत एवेत्यर्थः । एतदेवाह-कचिदित्यादि। नजों हि द्विविधः; पर्युदासः, प्रतिषेधश्च । तंत्र पर्युदासे -'न घटः पटः' इत्यादौ हि अन्योन्याभावो भासते। स च परस्परापोहरूप एवेति नातिरिक्तः । प्रतिषेधे-चैत्रः कटं न करोति इत्यादौ च क्रियानिवृत्तिरेव बोध्यते । सा च स्वरूपमेव कुत्रचित, कुत्रचिञ्च वस्त्वन्तररूपेति न ततोऽप्यभावसिद्धिरिति ॥
एकादशप्रकाति। न्यायबिन्द्वादौ धर्म फीांद्युक्तेत्यर्थः। धर्मोत्तरा. चार्य श्चेमा अनुपलब्धयः विशदं व्याख्याता: ॥
अत्र 'स्वभाव' इत्यादौ 'प्रतिषेध्यस्य' इत्यादिः। प्रतिषेध्यस्य यः । स्वभाव इति । . एवमेवोत्तरत्रापि । इह इति पक्षः, न घट इति साध्यः, अनुपलब्धेरिति हेतु: । धूमवह्नयोरिव घटस्य स्वेन साकं कार्यकारणभावाभावात् स्वभावानुपलब्धिः ॥
स्मि
-ख.
2 अदि-स