________________
आह्निकम् १]। अभावानभ्युपगमेऽपि न क्षतिः
149 अभावाभ्युपगमे तु भावानामितरेतराभावात् असङ्कीर्णता सेत्स्यति-तदेतदसाधु-स्वत एव भावानामसङ्कीर्ण स्वभावत्वात्॥
अभावकारणकसङ्करपरिहारकथने तु सुतरां विप्लवःभावो भावादिवान्यस्मात् अभावांशापि ध्रुवम् । असङ्कीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति? ॥१६६ ॥ अन्योन्य मध्य भावानां यद्यसङ्कीर्णता स्वतः। भावैः किमपराद्धं 'व', परतश्चेत् , कुतो नु सा?॥१६७॥ भावेभ्यो यद्यपेयेत भवेदन्योन्यसंश्रयम् ।
अभावान्तरजन्या चेत् अनवस्था दुरुत्तरा ॥१६८॥ अभावस्वभावतायाश्च सर्वान् प्रत्यविशेषात् प्रतिषेध्य निबन्धन एव तद्भेदः । प्रतिषेध्याश्च भावाः परस्परेण भिद्यमानास्तं मिन्दन्तीतिं प्रत्युत भावाधीनमभावानामसार्य वक्तुमुचितम्, नतु विपर्ययो युक्तः। तत् अखिलपदार्थव्यवस्थाविसंष्ठुलीभावभयादपि नाभायाभ्युपगमो युक्तः ॥
भाव इत्यादि । घटादिर्भाव: अन्यस्मात् पटादिभावात् मिद्यते, तथा अभावादपि स मियत एवेति वक्तव्यम , अन्यथा भावाभावयोः साङ्कर्यप्रसङ्गः। अभावप्रतियोगिंकान्योन्याभावाङ्गीकारे त्वनवस्था किञ्च घटाभावः पटाभावाद्भिद्यत एव। तयोरन्योन्याभावाङ्गीकारादनवस्था। यदि अभावस्थले भन्योन्याभावमन्तरा स्वत एव भेदभ्यवहारनिर्वाह', तर्हि भावयोगपि तथैव स्वत: असङ्कीर्णव्यवहारोऽस्तु । यद्यभावय: परस्परभेदः प्रतियोगिभूतघटपटादिभेदादेवं सिद्धयतीत्युग्यते-तान्योन्याश्रयः भावयोः घटपटयोः भेदो हि अभावात् सिद्धति, अभावयोस्तु भावात् सिद्धयतीति। अत: स्वलक्षणस्वभावानां भावानां भेदः स्वत एवास्त्विति नातिरिक्ताभावसिद्धिः इत्यर्थः । - प्रत्युत विपर्यय एवेत्याह-अभावेति। प्रतियोगिनिरूप्या प्रभावाः प्रतियोगिभेदादेव परस्परविलक्षणा वाच्याः, अभावानां निराकारत्वात् । प्रतियोगिनस्तु घटपटादयो विलक्षणा: स्वत: प्रत्यक्षत एव सिद्धा । अतः अभावानां सार्यवारणाय भावा अङ्गीकार्या इति कथनं युज्येतापि, न तु भावानां भसाकर्याय अभावोऽङ्गीकार्य इति भावः ॥
1 भावादसङ्कीर्ण-ख. माप-ख. वा-ख. .."