________________
148
भभावप्रकरणम्
न्यायमरी
[भभावस्वरूपानुपपत्तिः अपि चायमभावो भवनधर्मा वा स्यात् ? अभवनधर्मा वा? भवनधर्मत्वे भावोऽसौ भवेत् , घटादिवत् । अभवनधर्मा तु यद्यभावोऽस्ति, स नित्य एवासौ तर्हि भवेत् ॥
[भभावस्य सप्रतियोगिकत्वनिरासः] स चायमेकपदार्थसम्बन्धी वा स्यात् ? सर्वपदार्थसम्बन्धी वा? तत्र एकभावसम्बन्धित्वे न तस्य नियमकारणमुत्पश्यामः । सर्वभावसम्बन्धित्वे तु सर्वपदार्थप्रतिकूलस्याभावस्य नित्यत्वात् 'नित्यसन्निहितत्वात् सकृदेव त्रैलोक्यलोपप्रसङ्गः। तस्मात् न नित्योऽनित्यो वा कश्चि'दभावो नामास्ति ॥
[भभावानभ्युपगमेऽपि न साकर्यम्] . ननु ! अभावानभ्युपगमे भावानामितरेतरसङ्करात् अखिलव्यवहारविप्लवः प्राप्नोति । यदाह
'क्षीरे दधि भवेदेवं दन्नि क्षीरं घटे पटः।
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्ति रात्मनि ॥ इति ॥ प्रकारान्तरेणाभावं निराकरोति-स चेति। अभावः किं एकप्रतियोगिकः ? उत सर्वप्रतियोगिकः? आये-विनिगमनाविरहः, द्वितीये-सकृदेव सर्वाभावस्य सिद्ध्या त्रैलोक्यनिवृत्तिप्रसङ्ग इति भावः। अनित्यो वेति। अनित्यत्वे हि सार्वत्रिकस्य अभावव्यवहारस्य विलोपप्रसङ्ग इति भावः ॥ ____ इतरेतरसाकर्यमेवाह-क्षीर इत्यादि । श्लोकवार्तिकोऽयम् । अतिरिक्ताभाववादिशान्तरक्षितविरचिततत्त्वसङ्ग्रहेऽपि अयमर्थः प्रकारान्तरेण दृश्यते। यद्यभावाख्यः कश्चन पदार्थो न स्यात् तदा जगति विरोध एवोपपादयितुमशक्यः । विरोधस्याभावरूपत्वात् । एवञ्च विरोधाभावे च सर्व सर्वरूपं स्यात् । क्षीरे हि दनः प्रागभावो वर्तते, यदि प्रागभावो न स्यात्, क्षीरे दधि स्यात् । एवं दधि क्षीरध्वंसो वर्तने, यदि ध्वंसो न स्यात्, तर्हि दन्यपि क्षीरं स्यात् । एवं घटे पटान्योन्याभावो वर्तते, यदि अन्योन्याभावो न स्यात्, तर्हि घटोऽपि पटः स्यात् । एवं शशे शृङ्गाभावो वर्तते, यद्यत्यन्ताभावो न स्यात्, तर्हि शशेऽपि शृङ्गं स्यात्। अतः भावानां सार्यवारणायाभावः अवश्यमङ्गीकरणीयः इति ॥
1 नियस्सन्नित्यो वा कनि-ख. सत्वे सति-क. ३ मा-क.