________________
आह्निकम् १] अमावो न मावान्तर हेरः
14 भावो विनश्वगत्मा चेत् , कृतं प्रलयहेतुमिः। अथाप्यनश्वरात्मा चेत् , कृतं प्रलयहेतुभिः ॥ १६५ ॥
तस्माद्विजातीयकपालादिसन्ततिजनन एव मुद्रादिकारकव्यापारः; सामग्रयन्तरानुप्रवेशे सति सन्तत्यन्तगत्पादः, न पुनरभावस्य ततो निष्पत्तिः। स हि घटात् वस्त्वन्तरं चेत् किमायातम् ? यदसौ न पूर्ववदुपलभ्यते । तद्विरोधित्वादिति चेत् , प्रत्युक्तमेतत् । अनन्त'रत्वे तु घटस्यैव मुद्गरकार्यत्वं स्यात् ॥
परिणामवाद्युक्ताभावस्वरूपनिराकरणम् ] . ननु ! यानि मुद्रेण कपालानि जन्यन्ते, स एव घटाभावः । हन्त तर्हि काला स्फोटने सति घटाभावस्य विनष्टत्वात् घटस्योन्मजनं प्राप्नोति ।। ___किञ्च अकिञ्चित्कराणि कपालानि घटस्याभाव इति यधुच्यते, पटस्यापि तथोच्येरन् । "किञ्चित्कारकत्वं तेषां पूर्ववत् प्रतिक्षेप्तव्यम् ॥
भाव इति। घटादिः यद्यनित्यस्वभावः, तर्हि नाशोऽपि स्वतो भविष्यत्येव । · यद्यविनाशस्वभावः, तदा मुद्रादयो वा किं कुर्युः? मत उभयथाऽपि न विनाशकारणापेक्षेत्यर्थः ॥ .
तर्हि मुद्रेण किं क्रियत इत्यत्राह-तस्मादिति । विजातीयेति । घटसन्तानात् विलक्षणस्य कपालसन्तानस्य जनन एव मुद्रोपयोग इत्यर्थः । सा-घटनाशः । किमायातमिति । घटवत् घटनाशाख्यं स्वतन्त्रं वस्त्वन्तरं जातं चेत् , उभयमप्युपलभ्यतां कामम् । विरोधित्वान्नोभयोपलब्धिरिति चेत् . सः अनुपदमेव निरस्त:। घटनाशस्य घटादनन्तरत्वे घटनाशको मुद्गरो घटहेतुः स्यात् । अतो नाशः न स्वतन्त्रः कश्चित्पदार्थः ॥
- ननु घटस्य ध्वंसो नाम कपालावस्थाप्राप्तिरेव । सा च भवद्भिरप्यङ्गीकृता, एवञ्च कुतो विवाद: ? इत्याशङ्कते-- नन्विति ॥ समाधत्ते--हन्तेति । कपालावस्थैव यदि घरध्वंसरूपा, तर्हि कपालस्य नाशे घटध्वंसस्यापि नाशात पुनर्घटोन्मजनं स्यात् । वयं तु ध्वंसमेव नाङ्गीकुर्म इति नास्माकं दोष इत्यर्थः ॥ .. अकिञ्चित्कराणि----अनिरूपकाणीति यावत। तथा-नाशत्वेन ।।
रे-क. स-ख किन का-ख. ....
___10*