________________
अभावप्रकरण
146
न्यायमचरी समवेत वा विशषण भवति । दण्डी देवदत्तः, नीलमुत्पलमिति। अतश्च न वास्तवः स्वतन्त्र एव विशेषणविशेष्यभावः सम्बन्धः ॥
पुरुषेच्छया विपर्यस्यन्तमप्येनं पश्यामः। विशेषणमपि विशेष्यीभवति, विशेष्यमपि विशेषणीभवतीति काल्पनिक एवायं सम्बन्धः, न वस्तुधर्मः॥
भिभावप्रतियोगिनोः प्रतियोगित्वं न सम्बन्धः] प्रतियोगिना सह नतरामभावस्य सम्बन्धः, असमानकालत्वात्। यदा हि घटः, न तदा तदभावः ; यंदा वा तदभावः, न तदा घट इति॥
विरोधा'ख्यः सम्बन्धो भविष्यतीति चेत् , को विरोधार्थः? यदि हि प्राक् सिद्धो घटाभावः आगत्य घटं विरुन्ध्यात् भवेदपि तद्विरोधी, 'घटमुद्रयोरिव; न त्वेवमस्ति, तयोरसमानकालत्वात् । अभ्युपगमे वा घटतदभावयोः घटमुद्गरयोरिव वध्यघातुकयोः साहचर्यमनुभूयेत । घटाभावः किं कुर्वन् घटं विन्ध्यात्? अकिञ्चित्करस्य विरोधित्वऽतिप्रसक्तिः । . अभावान्तरकरणे त्व'नवस्था। मुद्रादयो 'घटाभावस्य हेतवो न भवितुमर्हन्ति । भावस्य स्वत एव भङ्गरत्वेन विनाशहेत्वनपेक्षत्वात् ॥
एन-विशेषणविशेष्यभावम् । घटवत् भूतलमित्यत्र हि घटो विशेषणं, भूतलं विशेष्यं ; भूनले घट इत्यत्र तु घटो विशेष्यः, भूतलं विशेषणमिति विपर्यासो दृश्यते। एवं घटाभाववत् भूतलमित्यादावपीत्यर्थः ॥
विगेधः-प्रतियोगिताऽपरपर्यायः। अभ्युपगम इति । समानकालिकत्वेत्यादिः । अतप्रसक्तिः-पटाभावस्यापि घटेन साकं विरोधापत्तिः। ननु अभावं भावं करोति चेदुपलंभायापत्तिः, अभावकरणे तु को दोषः ? इत्यत्र ह --अभावान्तरति। ननु मुद्रेण खलु घटध्वंसो जन्यते, तेन घटध्वंसमुद्रयोः कार्यकारणभावो वाच्यः। असम्बद्धयोश्च कार्यकारणभावो न स्यात् । एवञ्च भावाभावयोः सम्बन्धः सिद्ध एव । अथ तयोः कार्यकारणभाव एव सम्बन्ध:, नातिरिक्त इति चेत् - प्रतियोग्यभावयोरपि निरूपकनिरूप्यभावादिरेव यः कश्चित्सम्बन्धोऽस्तु । भावाभावयोस्तु सम्बन्धः अभ्युपगत एव इति शङ्कयां तयोः कार्यकरणभाव एव नास्तीति, न प्रतियोग्यभावयो. सम्बन्धो युज्यत इत्याह-मुद्रादय इति । भङ्गुरत्वेन-प्रतिक्षणं नश्यमानत्वेन ॥
स्य-ख. न-ग णत्वे-ख. 'घटस्य नामावहेतवो भवतु-ख.