________________
145
• आह्निकम् ।
अमावनिराकरणम् अभावश्च क्वचिलिङ्गमिष्यते भावसंविदः। वृष्टयभावोऽपि वाय्वभ्रसंयोगस्यानुमापकः ॥ १६२ ॥ • तस्माद्युक्तमभावस्य नाभावेनैव वेदनम् । न नाम यादृशो यक्षो बलिरप्यस्य तादृशः ॥ १६३ ॥
इति अभावास्यप्रमाण नरसनम्
[बौद्धोक्ताभावनिराकरणप्रकारः] अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् । युक्तं नाम प्रमाणस्य, तदेव त्वतिदुर्लभम् ॥ १६४ ॥
अभावो नाम प्रतीयमानो न त्वतन्त्रतया 'घटादिभावस्वरूपवदमुभूयते, अपि तु देशकालप्रतियोगिविशिष्टत्वेन । तथा ह्येवं प्रतीतिः 'इदमिदानी मिह नास्ति' इति । स चेत्थमवगम्यमानोऽपि यदि तैः सम्बद्ध एव भवेदभावः, क एनं द्विष्यात् । न त्वसौ तत्संबद्धः। न हि देशेन कालेन प्रतियोगिना सहास्य कश्चित् सम्बन्धः, संयोगसमवायादेरनुपपत्तः। न च सम्बन्धरहितमेव विशेषणं भवति ॥ .
विशेषणविशेष्यभावस्य सम्बन्धत्वनिराकरणम्]. . ननु! विशेषणविशेष्यभाव एव सम्बन्धः, किं सम्बन्धान्तरापंक्षया ?-मैवम् –सम्बन्धान्तरमूलकत्वेन तदवगमात्। संयुक्तं कारणात् । अभावेन भावानुमिती दृष्टान्तमाह-वृष्टीति। अत्र गगनं, वावभ्रसंयोगवत्, अत्र वृष्ट्यभावादिति । न नामेति । सर्वत्रेति शेषः ॥
रक्तपटा:-बौद्वाः। प्रमाणस्य चिन्तनमित्यन्वयः। तदेवअभावरूपं प्रमेयमेव । अन्त्रितया- स्वतन्त्रतया। इदमिति प्रतियोगि, इदानीमिति कालः, इहेत्यनुयोगि चोच्यते । तैः-देशकालप्रतियोगिमिः । संयोगेति । द्रव्ययोरेव संयोगात, अवयवावयव्यादीनामेव समवायादित्यर्थः ।।
तदवगमात्-विशेषणविशेष्यभावावगमात् ॥
...
.........
घटाभान-ख..... NYAYAMANJARI