________________
आतिकम् १] अभावस्य चाक्षुषत्वसमर्थनम्
143 ननु ! मेचकवुद्धया सकलाभावग्रहणे सहसैव 'सकलाभाव'स्मृतिरुपजायेत-मैवम्-यत्रैव प्रश्नादिस्मरणकारणमस्य भवति तदेव स्मरति, न सर्वमविद्यमानस्मरणनिमित्तम् । 'क्रमोपलब्धेष्यपि वणेषु युगपदन्त्यवर्णानुभवसमनन्तरं स्मरणम, अन्यत्र तु युगपदुपलब्धेऽपि क्रमेण स्मरणं भविष्यतीति न मेचकबुद्धावयं दोषः ॥
किश्च स्वरूपमात्रं दृष्टमिति वदता भवताऽपि मेचकज्ञानमभ्युपगतमेव ; मात्रग्रहणेन तदन्या भावग्रहणसिद्धः। एवं हि भवानेवा. भ्यधात्
'अयमेवेति यो ह्येष भावे भवति निर्णयः।
नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते' इति ॥ तस्मात् गौरमूलका वगम समय एव तत्रासन्निहितस्य गर्गादेरभावग्रहणात् नेदानीं परोक्षाभावग्रहणमभावकार णक मभ्युप. गन्तव्यमिति प्रत्यक्षगम्य एवायमभावः ।। परिशीलनादिमिः विलम्ब संभाग्येत । असकृदभ्यस्तविषये हि अनुमितिरपि प्रत्यक्षवदेव शीघ्रं जायते । एवं प्रकृतेऽपि पूर्वज्ञानस्य शीघ्रमुपजासत्वेन नानुभवः । यथा हि भावविषयेऽपि कदाचित् रथ्यायां गच्छन् गर्ग पश्यन्नपि तदानीमेव नास्य तज्ज्ञानानुभव:, देशान्तरे च पुरुषान्तरेण 'किं गर्गः इतोऽगच्छत् ? ' इति पृष्टः तदानी गर्ग किञ्चिञ्चिन्तनया प्रतिसन्धाय 'मा: सत्यं गतः' इति प्रतिवदति । तदानी गर्गस्मरणमेव, न त्वपूर्वानुभव इति सर्वैरास्थेयमेव। एवं अयं न्यायः तुल्यः अभावविषयेऽपि इति ॥ .. यत्रत्यादि। भूतले यदा घटो गृह्यते, तदा तदितरयावत्प्रतियोगिकाभावः सामान्यतो गृह्यत एव । अत एव कालान्तरे तत्र पट मासीद्वेति प्रश्ने तदा पटस्य विशिष्य प्रतियोगिन उपस्थित्या विशिष्य पटाभावः स्मर्यते इतीदं सर्वानुभवसिद्धमेवेति । अत्र दृष्टान्तमाह -क्रमेति । व्यतिरेकदृष्टान्तोऽयम् ॥ . इदं तेषामप्यपरिहार्यमित्याह-किश्चेति। अयमेवेति । अयमेवेति यः भावविषयक एष निर्णयः भवति, एष निर्णयः एवकारार्थत्वेन
गर्गाभाव-क. • मेव तयोष-क.
अन्यत्र तु युगपदुप-ख. वेश-ख. ण-ख.
तदन्यथा-क.