________________
142 अनुपलग्धिप्रकरणम्
न्यायमधरी [भभावस्याप्रत्यक्षत्वे पूर्वोक्तयुक्तिनिराकरणम् ] यदपि"खरूपमात्रं 'दृष्वाऽपि' पश्चात् किञ्चित् स्मरन्नपि ।
तत्राम्यनास्तितां पृष्टः तदैव प्रतिपद्यते ॥" इत्युक्तं तदपि न युक्तम्-वस्त्वन्तरविविक्तगौरमूलकस्वरुपग्रहण समय एव तत्रासन्निहितसकलपदार्थाभावग्रहणस्य मेचकबुद्धया सिद्धत्वात् इदानीं तद्तगर्गाभावस्मरणं न तस्य परोक्षस्यानुभवः ।
तथा हि-'तदानी गर्गस्तत्र नासीत् ' इत्येवं असौ स्मृत्वा सत्यवादी वदति', इदानीमस्तित्वनास्तित्वे प्रति संशेत एवासी'; गर्गस्य कुतश्चिदागतस्येदानीं तत्रास्तित्वसंभवात् ॥
ननु ! न पूर्व सर्वाभावग्रहणमनुभूतवानसौ गौर'मूलके इति चेत्'-अननुभूयमानमपि तदस्य बलात् कल्प्यतेऽभ्यस्तविषयेऽविनाभावस्मरणवत् । तथा हि-तेन तेनानुयुक्तः तस्य तम्याभावं. स्मृत्वोत्तरमसौ सर्वेभ्य आचष्टे ।
स्वरूपमात्रमित्यादि। एतत्तात्पर्य पूर्वमेव (134 पुटे) विवृतम् । इन्युक्तमिति। कुमारिलभट्टपादैः श्लोकवार्तिक इति शेषः। वस्त्वन्तरविविक्तेति । ' स्वरूपमा ' इति श्लोकखण्डानुवादः । मेचकबुद्धयाअप्रातिस्विकबुद्धया। एवञ्ज्ञ सामान्यतो गौरमूलके निखिलाभावग्रहणं पूर्वमेव जातम् , यदा च प्रतियोगिविशेषोपस्थिति तदा विशिष्य तदभावस्मरणम् । ‘निर्विशेषं न सामान्यम् ' इति न्यायात् । पूर्व गौरमूलकगतत्वेन खलु अभावमयं व्यवहरति, न तु न्यवहारकालेऽपि तत्र गर्गस्यासत्वं प्रतिज्ञ तुं प्रभवति । एवञ्च पूर्वगृहीताभावस्मरणमेवेदमित्यर्थः ॥
न पूर्वमनुभूतवानिति । पूर्व गौरमूलके न हि सर्वाभावप्रत्यक्षं जातमित्यर्थः । अननुभूयमानं-अनुव्यवसायागम्यम् । तत्-सर्वाभावग्रहणम् । कथं अननुभूतस्य कल्पनं, न हि तदा निर्विकल्पकमासीत् । तस्य संस्काराहेतुत्वात् इत्यत्राह-अभ्यस्तेति । अनभ्यस्तविषये व्याप्तिस्मरण
स्मरति-ख.
एवास्य-क.
'मूलके-ख.,
दृष्ट्वा च-ग. मुबके इति चेत्र-क.