________________
141
आह्निकम् १]
सन्निकर्षाणामावश्यकत्वम्
[सन्निकर्षाणामावश्यकता ननु ! अर्थग्रहणात्पको व्यापार एव चक्षुषः सन्निकर्षों योग्यता वा। तद्वशादेव रूपस्य तत् ग्राह'क'मुपेयते, न च संयुक्तसमवायादिनेति-स तर्हि व्यापारः, सा वा योग्यता कथमभावमपि प्रति तस्य न स्यात् । प्राप्यकारीणि चेन्द्रियाणि कारकत्वादिष्यन्ते, सन्निकर्षश्च नियते इति विप्रतिषिद्धम् ॥
तस्मात् षट्प्रकारा सन्त्रिकर्षानुगामिनी योग्यता वक्तव्या, न योग्यतामात्र एव विश्रम्य स्थातव्यम्। यत्र योग्यता तत्र सन्निकर्षोऽप्यस्ति, न तु यत्र सन्निकर्षः तत्रावश्यं योग्यतेत्येवमभ्युपगच्छतां न रसाधतिप्रसङ्गचोदना धुनोति मनः। रसादेः सत्यपि सन्निकर्षे योग्यत्वाभावादग्रहणम् ॥
योग्यतामात्रवादेऽपि नाभावस्यास्त्ययोग्यता । भवद्भिर्वस्तुधर्मोऽस्य को वा नाभ्युपगम्यते ? ॥१५७॥ सर्वोपाख्यवियुक्तत्वात् नास्त्येवेत्येष वोच्यताम् ।
अभावश्चाक्षुषशानविषयो वाऽभ्युपेयताम् ॥ ॥ १५८॥ ___ ननु इदमसङ्गतम्, अन्यस्यैव सन्निकर्षत्वात् । तथोक्तं ---'व्यापारो न यदा तेषां तदा नोत्पद्यते फलम्" इति । उक्तं चात्रैव भट्टोम्बेकेन–'योग्यतालक्षण एव सन्निकर्षः, योग्यता व कार्यानुमेया' इति । तदिदं शङ्कते-नन्विति । समाधत्ते - स तहीनि। तस्य-इन्द्रियस्य । प्राप्यकारीणीत्यादि । 'ससंप्रयोगे पुरुषस्येन्द्रियाणां' इत्यनेन खलु इन्द्रियसंयोगः वस्तूनामुच्यते, संयोगश्चानेकविध इति सूचनाय 'संप्रयोग' इति च ; एवं सति कथं सन्निकर्षों नियत इति भावः ॥ . षट्प्रकारा योग्यता इत्यन्वयः।।।
· एवं सन्निकर्षेणैव योग्यताया उपपादनीयत्वेन सग्निकर्षावश्यकत्वमुक्त्वा केवलयोग्यतापक्षेऽपि नानुपपत्तिरित्याह-योग्यतामात्रवादेऽपीति । घटादरिव सर्वोऽपि धर्मः तैरभावस्याङ्गीक्रियते। एवञ्च अभावस्यैतान् धर्मान् प्रतिषिध्य शशशशादिवत् निरुपाख्यत्वरूपावस्तुत्वमेवाङ्गीक्रियतां, चाक्षुषत्वं वाऽङ्गीक्रियताम् ; न तु अभावं वस्तुरूपमङ्गीकृत्य तस्यानेन्द्रियिकत्वाङ्गीकरणं युक्तमित्यर्थः ॥
कत्व-ख.
'प्रति-क.