________________
140 अनुपलब्धिप्रकरणम्
[न्यायमञ्जरी संयुक्तविशेषणनासन्निकर्षम्यावश्यकत्वम् ननु 'तदि'दमसिद्धमसिद्धस्य दृष्टान्तीक्रियते-मैवम्भवताऽपि द्रव्यगुणयोवृत्तरपरिहार्यत्वात् । मेदबुद्धया सिद्ध मेदयोः असम्बद्धयोश्च द्रव्यगुणयोरदर्शनात् अवश्यं काचिद्धत्तिरेषितव्येति अलमर्थान्तरचिन्तनेन ॥
___ [अभावस्य सम्बन्धोपपादनम्] यत्तृक्तं संयोगसमवाययोरभावात् अभावो न भूप्रदेशस्य विशेषणमिति-तदप्यसाधु-संयोगसमवायाभ्यामन्यस्येव विशेषणविशेष्यभावनानः सम्बन्धस्य अदूर एव प्रतीतिबलेन दयिष्यमाणत्वात् ॥
[संयुक्तविशेषणतायाः सन्निकर्षत्वे उक्तातिप्रसङ्गपरिहारः] यस्तु संयुक्तविशेषणभावे सन्निकर्षे रसादिभिरतिप्रसङ्ग उद्भावितः, सोऽयं संयुक्तसमवायाख्ये चक्षूरूपसन्निकर्षेऽपि समानो : दोषः॥
संयुक्तसमवायोऽपि तर्हि मा भृत् सन्निकर्षः ; किं नश्छिन्नम् ? तकि असम्बद्धमेव रूपं गृह्णातु चक्षुः! न हि संयुक्तसमवायादन्यः चक्षुरूपयोः सम्पन्धः॥
असिद्ध मिति । समवायस्यैव तन्मतेऽसिद्धत्वात् । वृत्तः-सम्बन्धस्य । ननु भाहानामस्माकं द्रव्यगुणयो त्यन्तभेदः, किन्तु भेदाभेदे एवेति शङ्कायां, तस्याः परिहारस्य बहुग्रन्थसाध्यत्वेन संक्षेपात् 'परिहारमाह--भेदबुद्धयति । 'घट: रूपवान् , न तु रूपम्' इति प्रतीतेरित्यर्थः॥ .
अदूर इति । बोद्धाक्षेपप्रतिवचनावसर इत्यर्थः ॥
आंतप्रसङ्ग इति । चक्षुस्संयुक्तरसखण्डादौ रसस्य विशेषणत्वादित्यर्थः । चक्षुरूपेति । चक्षुष: रूपेण सहेत्यर्थः। चक्षुस्संयुक्तघटादिसमवायः रूपे रसे चाविशिष्टः, अथापि चक्षुषा रूपमेव गृह्यते न रस इति यथा, तथा प्रकृतेप्यस्त्वित्यर्थः॥
. ननु के प्रत्युच्यते, न वयं संयुक्तसमवायमभ्युपगच्छामः-- इति भावेन वक्ति -संयुक्तेति । प्रतिवक्ति -- तत्किमिति । नन्वस्तु सम्बन्धः, स भवदुक्त एवेति कथमित्यत्राह---न हीति ॥
'तडी-ख.