________________
आह्निकम् १]
अभावस्य चाक्षुषत्वोपपादनम्
ननु असम्बद्धस्प चक्षुषा ग्रहणे दूरव्यवहितस्य विभीषणादेरवि चाक्षुषत्यप्रसङ्गः - उच्यते भावे खल्वयं नियमः, यत् असम्बद्धस्य चक्षुषाऽग्रहणम्, अभा वस्त्वसम्बद्धोऽपि चक्षुषा गृहीष्यते ॥
प्रकारसन्निकर्षवर्णनमपि भावाभिप्रायमेव, सम्बद्ध हि यत् गृह्यते तत् पणां सन्निकर्मणामन्यतमेन सन्निकर्षेणे ते ॥
प्राप्यकारित्वमपीन्द्रियाणां वस्त्वभिप्रायमेवोच्यते । तस्मादवस्तुत्वादभावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न दोषः ॥
न चासम्बद्धत्वाविशेषत् देशान्तरादिषु सर्वानावग्रहणमाशङ्कनीयम्, आश्रयग्रहणसापेक्षत्वादभावप्रतीतः; आश्रयस्य च सन्नहितस्यैव प्रत्यक्षत्वात् ॥
139
[ स्वपक्षेन अभावस्य प्रत्यक्षत्वोपपादनम् ]
अथवा संयुक्त विशेषण' भावाख्यसन्निकर्षोपकृतं चक्षुरभावं ग्रहीष्यति । यथा समवाय प्रत्यक्षत्ववादिनां पक्षे समवायमिति ॥
विभीषणस्येदानीमपि लङ्कायां राज्यकरणस्य पुराणप्रसिद्ध्या विभीषणादेरित्युक्तम् । यद्वा दूरम्यवधानं कालतो देश तश्चेति कृत्वा तथोकम् । इन्द्रियसम्बन्धं विनाऽपि चाक्षुत्रत्वे देशान्तरकालान्तरव्यवहितस्यापि चाक्षुषत्वं स्यादित्यर्थः ॥
ननु यदि अभावः इन्द्रियसन्निकर्षं विनाऽपि गृह्येत तर्हि विशेषणताख्यसन्निकर्षः किमर्थमिति शङ्कायां समवायप्रत्यक्षे तदुपयोक्ष्यते, एवञ्च षड्विध. सन्निकर्षोऽपि भावविषयक एवेत्याह - षट्प्रकारेति । सम्बद्धमिति । इन्द्रियेणेति शेष ॥
ननु तर्हि इन्द्रियाणां प्राप्यकारित्वं भज्येतेति कथं बौद्धपराकरणम् ? इति शङ्कायामाह – प्राप्यकारित्वमिति । वस्त्विति । भावरूपेत्यादिः । भवति, अस्ति इति प्रतीतिविषयत्वमिति यावत् । वस्तुत्वादिति । भभावरूपत्वादित्यर्थः । तेन - अभावेन ||
देशान्तरादिष्वित्यादिना कालान्तरपरिग्रहः । आश्रयेति । निष्प्रतियोगिकः यथा वाभावो नास्ति, तथा निरनुयोगिकोऽपि नास्तीति भावः ॥ . एवं वैभवेनोक्त्वा वस्तुगत्याऽऽद्द -- अथवेति । तथा च प्रत्यक्षलक्षणसूत्र न्यायवार्तिकम् - 'समवायेऽभावे च विशेषणविशेष्यभावात्' इति । समर्थितं चैतत् तात्पर्यटीकायां वाचस्पति मिश्रः ॥
पक्षे-नैयायिकपक्षे |
ष-क.