________________
138 अनुपलब्धिप्रकरणम्
न्यायमजरी - नच'दुरस्थित'हुतवहरूपदर्शनपूर्वकस्पर्शानुमानवदिदमन्यथासिद्ध तद्भावभावित्वम् । तत्र हि बहुशः स्पर्शदर्शनकौशलशून्यत्वमवधारितं चक्षुषः, स्पर्शपरिच्छेदि च कारणान्तरं त्वगिन्द्रियमवगतम् ॥ ____ अविनाभाविता च पुरा तथाविधयो रूपस्पर्शयोरुपलब्धेत्यनुमेय एवासौ स्पर्श इति युक्तं तत्रान्यथासिद्धत्वं चक्षुर्व्यापारस्य |
प्रकृते तु नेदृशः प्रकारः समस्ति। न चेकत्र तद्भावभावित्वमन्यथासिद्ध मति सर्वत्र तथा कल्प्यते । एवं हि रूपमपि चाक्षुपतामवजह्यात् ॥
[वैभवेन अभावस्य चाक्षुषत्वसमर्थनम् ] ननुनीरूपस्यासंबद्धस्य च चाक्षुषत्वमभावस्य कथमभिधीयते?
चक्षुर्जनितज्ञानववाद्धि चाक्षुषत्वम्, न रूपवत्त्वेन । रूपवतामपि परमाणूनाम चाक्षुषत्वात् । नीरूपस्यापि रूपस्य चाक्षुषत्वाच्च ।।
संबद्धमपि न सर्व चाक्षुश्म, आकाशस्य तथात्वेऽपि तदभावात् ।।
अनन्यथासिद्धत्वमेवाशंक्योपपादयति-न चेति। स्पर्शदर्शनकौशलं स्पर्शविषयकप्रत्यक्ष जननसामर्थ्यम् ||
तथाविधयो:-ज्वालावलीजटिलेत्याद्यक्तविधयोः ॥
एवमिति । परमाणौ रूपसत्वेऽपि चक्षुषाऽग्रहणात् रूपं चाक्षुषे कारणं न स्यात् । यदि तत्राग्रहणमन्यथासिद्धं प्रकृतेऽपि तथा। तस्मादकैव रीतिः सर्वत्र वक्तुमशक्येति भावः ॥
असम्बद्धस्येति । चक्षुषेति शेषः । एवमुत्तात्र सर्वत्रापि ॥
चक्षुर्जनितेत्यादि । चक्षुषा गृह्यत इत्यस्मिन्नर्थे ‘शेषे' इति सूत्रात् शैषिकेऽण्प्रत्यये खलु 'चाक्षुषम् ' इति पदनिष्पत्ति: । एवञ्च चक्षुरिन्द्रियजन्यज्ञानविषयत्वं चाक्षुषपदप्रवृत्तिनिमित्तम् । न तु रूपवत्त्वम् , अन्वयतो म्यतिरेक श्च न्यभिचारात् इत्यर्थः ॥
एवं नीरूपस्य, असम्बद्धस्य-इत्युक्तयो: नीरूपत्वस्यान्यथासिद्धि मुक्ता द्वितीयस्य तामाह-सम्बद्धमपीति । विभोः खल्वाकाशस्य चक्षुस्सम्बन्ध अवर्जनीय इति भावः ॥
दरम्यवस्थित:-ख.
स्वाचा-ख.
चाक्षुषत्वात-ख.