________________
आतिकम् १] अनुपलब्धेरतिरिक्तप्रमाणस्वनिरास:
137 तथा च 'इह घटो नास्ति' इति ज्ञानमेकमेवेदम् ‘इह कुण्डे दधि' इति ज्ञानवत् , उभयालम्बनमनुपरतनयनव्यापारस्य भवति । तत्र भूप्रदेशमात्र एव नयनजं ज्ञानम, इतरत्र प्रमाणान्तरजनितमिति कुतस्त्योऽयं विभागः?
अत्राग्निरिति युक्तोऽयं अनक्षजः प्रतिभासः। धूमग्रहणानन्तरं अविनाभावस्मरणादिबुद्धयन्तरव्यवधानसंभवात् । इह तु तथा नास्त्येव । अव्यवहितैव हि भूप्रदेशवत् घटनास्तिताऽवगतिरविच्छेदेनानुभूयते। न च क्षितिधराधिकरणपरोक्षाशुशुक्षणिवदनीक्षणविषयता भव'त्य'भावस्य : तद्यापारान्वयव्यतिरेकानुविधायित्वात् तत्प्रतीतेः। तत्र हि व्यापृताक्षोऽपि न पर्वतवर्तिनमनलमवलोकयितुमुन्सहते; इह तु घटाभावमपरिम्लाननयनव्यापार एव पश्यतीति चाक्षुषमभावशानम् , तद्भावभावि'त्वानुविधानात् ॥
अभावाधिकरणयोरेकप्रमाणगम्यत्वमुपपादयति-तथा चेत्यादिना। 'इह कुण्डे दधि' इति ज्ञानं हि विशेष्यविशेषणोभयविषयकं चाक्षुषमेव । एवं भूनले घटाभावः इत्यत्रापि उभयोरप्येकेन प्रमागेन ग्रहणं युक्तम् । न झेकमेव ज्ञानं विशेष्यांशे चाक्षुषं विशेषणांशे मानसमिति संभवेत्, प्रमाणभेदे प्रमितिभेदावश्यंभावात् । न वेदं विभिन्नमेव ज्ञानद्वयम्, अननुभवात् । भत: ज्ञानेक्ये अनुभवसिद्धे प्रमाणपरिशीलनायां विशेष्यग्रहणार्थमावश्य केन चक्षुषैव विशेषणग्रहणमकामेनापि वाच्यमिति ॥
ननु योकस्मिन्नेव ज्ञाने एकांशे परोक्षत्वं अपरांशेऽपरोक्षत्वं च नाङ्गीक्रियेत तर्हि 'पर्वतो वहिमान्' इति ज्ञानं कथम् ? तत्र हि पर्वतः अपरोक्षः, वहिश्च परोक्षः । एवं प्रकृतेऽपि भूतलांशे ऐन्द्रियिकम् , अभावांशे अनैन्द्रियिकमिति कुतो न स्यादिति शङ्कायां, ‘पर्वतो वह्निगन्' इति विशिष्टमेकं ज्ञानं परोक्षमेव , पर्वतो धूमवान् इति पक्षधर्मताज्ञानं परमपरोक्षम् । अतो नानुपपत्तिरित्याह-अत्राग्निरित्यादि । इह-- भूतलं घटाभाववदित्यत्र : तथाबुद्ध यन्तरव्यवधानम्। अनीक्षणविषयता-- चक्षुरिन्द्रियाग्राह्यता। अपरिम्लानेति । अनुपरतेत्यर्थः । तद्भावभावित्वेति । अस्य अनन्यथासिद्धेत्यादिः ।
ति-ख.
विधानाव-ख.
स्ववि-ख..