________________
136 अनुपलब्धिप्रकरणम्
[न्यायमञ्जरी - अदर्शनाख्यं लिङ्गमपि दर्शनाभावस्वभावमिति तत्स्वरूपपरिच्छेदचिन्तायामप्ययमेव पन्थाः । अतो दूरमपि गत्वा तदवगमसिद्धये प्रमाणान्तरमभावपरिच्छेदनिपुणमवगन्तव्यनिति तत एव तदवगमसिद्धेर्न तस्यानुमेयत्वम् ॥
न चेदं 'इह घटो नास्ति' इति शानं शब्दोपमानार्थापत्त्यन्यतमनि मनगाशङ्कितमपि युक्तमिति सदुपलम्भकप्रमाणातीतत्वादभावस्यैव भूमिरभाव इति युक्तम् ॥
अपि च प्रमेयं अनुरूपेण प्रमाणेन प्रमातुमुवितम् - भावात्मके 'प्रमेय हि नाभावस्य प्रमाणता । अभावेऽपि प्रमेय स्यात् न भावस्य प्रमाणता ॥ १५४ ॥. न प्रमेयमभावाख्यं निहतं 'बौद्धवत् त्वया । प्रमाणमपि तेनेदं अभावात्मकमिष्यताम् ॥ १५ ॥
[भभावाख्यातिरिक्तप्रमाणनिराकरणम् ] अत्राभिधीयते-सत्यभावः प्रमेयमभ्युपगम्यते, प्रत्यक्षाधवसीयमानस्वरूपत्वात्तु न प्राणान्तरमात्मपरिच्छित्तर मृगयते।
अदरमेदिनीदेशवर्तिनस्तस्य चक्षुषा'। परिच्छेदः परोक्षस्य कावन्मानान्तरैरपि ॥ १५६ ॥
भावात्मक इत्यादि । प्रमेये भावरूपे प्रमाणोऽपि भावरूप एव स्यात् । अभाव: यदा प्रमेयः, तदा प्रमाणमप्यभावरूपम् । गन्धादिग्राहक्राणामिन्द्रियाणां गन्धवत्त्वादिनाऽऽनुरूप्यस्य सम्मतत्वात् । अभावाख्यं प्रमेयं स्वतिरिक्तमङ्गीकृतम् , एवं सति तेन सहातिरिक्तं प्रमाणमप्यङ्गीकार्यमेव । दु:खं माऽस्तु, सुख परं भवत्विति कोऽयं न्याय इति भावः ॥
सत्यमित्यादि। न वयं प्रमाणं विना प्रमेयमात्रमङ्गीकुर्मः, परन्तु प्रमाणेन क्लृप्तातिरिक्तेनैव भाव्यमिति कुतो भर्त्स यति भंवान् ? समीपस्थस्याभावस्येन्द्रियेण ग्रहण, परोक्षस्य तु यथासंभवमनुमानादिनाऽपि इति नातिरिक्तप्रमाणापेक्षेति ॥
'स्य-ख.
प्रमाणे-क. - बोधयत्-ख.
-ख.