________________
आह्निकम १] अनुपलब्धेरतिरिक्तप्रमाणत्वम्
135 अपक्षधर्मत्वात् । घटादर्शनं घटस्य धर्मः, न तदभावस्य । घटाभावप्रतीतिं प्रति व्या प्रियमाणत्वात् तद्धर्मत्वमस्येति चेत् -नइतरेतराश्रयप्रसङ्गात् । तद्धर्मत्वे सति लिङ्गप्रतीतिजनकत्वं, प्रतीतिजन्मनि सति 'तद्धर्मत्वमिति । असिद्धायां च घटाभावप्रतीतौ तद्धर्मता ज्ञानमदर्शनस्य दुर्घटमेव । सिद्धायां तु किं पक्षधर्मताशानेन? साध्यप्रतीतेः सिद्धत्वात् ।। ____ अपि चेदमदर्शनाख्यं लिङ्गमावदितव्याप्ति कथमभावस्यानु मापकं भवेत् ? व्याप्तिग्रहणं च धूमाग्नवत् उभयधर्मि ग्रहणपूर्वकम् । तत्र व्याप्तिग्रहणवेलायामेव तावत् कुतस्त्यमभावाख्यधर्मिहणमिति चिन्त्यम् ॥ ___ तत एवानुमानादिति यद्युच्यते, तदितरेतराश्रयम् । अनुमानान्तरनिवन्धने' तु तद्हणेऽनवस्था ॥ घटस्य धर्म इति । घटस्य दर्शनमित्युक्ते हि दर्शने घटधर्मत्वं विषयीक्रियते, घटस्य रूपमितिवत् । एवं अदर्शनमपि तथैव विषयीक्रियत इत्यनुभवसिद्धमेतत् । ननु धर्मत्वं, बहुविधं, यथा हि आत्मधर्मोऽपि ज्ञान सम्बन्धान्तरेण घटधर्मों भवति, यथा वा वह्निव्याप्यो धूमः वह्निधर्मोऽपि भवति तथा घटाभावप्रतीतिजनकत्वादेव अदर्शनं घटाभावधर्मोऽपि भवितुमर्हत्येवेति शङ्कते-घटाभावेति ॥
उभयधर्मीति । व्याप्यव्यापकरूपधर्मीत्यर्थः । एवञ्च घटाभावरूपस्य ग्यापकस्य घटादर्शनरूपस्य व्याप्यस्य च प्रथमं स्वरूपद्रहणमन्तरा व्याप्तिग्रहणमेव न संभवेत्। प्राथमिकं च तत् घटाभावज्ञानं केन प्रमाणेन जायत इति वक्तव्यम् । यदि तेनैवानुमानेन, तर्हि, अनुमानेन धर्मिग्रहणं, धर्मिम्हणे चानुमानप्रवृत्तिरित्यन्योऽन्याश्रयः। यदि चानुमानान्तरेण तर्घनवस्था । प्रत्यक्षस्य च प्रसक्तिरितैवेति ॥ - किञ्च घटादर्शनमपि घटदर्शनाभावरूपं, स च हेतुभूतः दर्शनाभाव: केन गृह्यत इति यथोक्तदोषानतिपातः ॥
न चेदं शाब्दादिरूपं, तन्निमित्तानां शब्दादीनां सर्वथाऽप्रवृत्तः । अतः अभाव: मभावाख्येन प्रमाणान्तरेणैव गम्य इति प्रघट्टकार्थः ॥
तिव्या-क
तदर्मता-ख.
धे-क.