________________
१]
अनुपलब्धेर तिरि क्तप्रमाणत्वम्
योग्यतैव सन्निकर्षो भवतु किं षट्कघोषेण ? तस्मान्न घटाभावज्ञानं चाक्षुषम् ॥
[ अभावस्यैन्द्रियकत्वनिरास: ]
ननु भूप्रदेशं च घटाभावं च विष्फारिते चक्षुषि निरीक्षामहे ; निमीलिते तु तस्मिंस्तयोरन्यतरमपि न पश्यामः । तत्र समाने च तद्भावभावित्वे भूप्रदेशज्ञानं चाक्षुषम्, अभावज्ञानं तु न चाक्षुषमिति कुतो विशेषमवगच्छामः ?
सन्निकर्षाभावादेव | न ह्यसन्निकृष्टं
बाढमवगच्छामः चक्षुरवगतिजन्मने प्रभवति ॥
तद्भावभावत्वं' त्विदमन्यथा सिद्धम् ; विदूरदेश'व्यवस्थितस्थूलज्वालावलीजटिलज्वलनगतभास्वररूपोपलम्भानुवर्तिनगोष्णस्पर्शज्ञानत्रत् । तत्र यथा रूपानुपीयमानस्पर्शवेदने नयनान्वयव्यतिरेका'नु' विधानमन्यथासिद्धम्, एवमिहापि भूप्रेदेशोपलम्भाविनाभाविनि कुम्भाभावग्रहणे 'तत्कृत' मिन्द्रियान्वयव्यतिरेका'नु'विधानमिति न चाप घटाभावप्रतिभासः । तदुक्तम्
'गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ' इति ॥
133
संयुक्तविशेवणतादिषडिधसन्निकर्षवर्णनं किमर्थमित्यर्थः । तस्मात् - योग्यत्वायोग्यत्वकृत वैषम्यस्य दुर्वचत्वात् ॥
तद्भावभावित्वे तस्य भावे सति भावित्वं इत्यन्वयः, अवधारणविवक्षया च तस्याभावे सत्यभावित्वमिति व्यतिरेकश्च लभ्यते, तथा चचक्षुस्संयोगान्वयव्यतिरेकानुविधायित्व इति यावत् ॥
अवगतिजन्मने - ज्ञानोत्पादनाय ॥
विदूरेत्यादि । विदूरदेशव्यवस्थितः स्थूलज्वालावलीजटिलश्च यः ज्वलनः तद्गतभास्वररूपोपलंभानुवर्ति यत् तद्गतोष्णस्पर्शज्ञानं तद्वदित्यर्थः । तादृशज्वलनदर्शनकाले एव तद्गतोष्णस्पर्शज्ञानं जायत एवं, अथापि न तच्चाक्षुषं, एवमेव भूतलदर्शने सति घटाभावज्ञानमित्यर्थः । तत्कृतं - अविनाभावकृतम् ॥ स्वोक्तार्थे भट्टाचार्यसम्मतिमाह - तदुक्तमिति । वस्तु-अभावाधि
1 तं-ख.
2
शेख.
3
वय -ख. 4 अविनाभावकृत - ग.