________________
अनुपलब्धिप्रकरणम्
( न्यायमञ्जरी
तत्र तावदिदं नास्तीति ज्ञानं न प्रत्यक्षजनितम्, इन्द्रियार्थसन्निकर्षाभावात् । सन्निकर्षो हि संयोगसमवायस्वभावः, तत्प्र'भव' मेदो वा 'संयुक्तसमवायादिरिह नास्त्येव । संयुक्तं विशेषणभावोऽपि न संभवति, कुम्भाभावस्य भूप्रदेशविशेषणत्वाभावात् । न ह्यसंयुक्तसमवेतं वा किञ्चिद्विशेषणं भवति । संयुक्तस्य दण्डादेः समवेतस्य शुक्लगुणादेः तथाभावदर्शनात् । अभावश्च न केनचित्संयुज्यते, अद्रव्यभावात् । न कचित् 'स'मवैति गुणादिवैलक्षण्यादिति ॥
132
यदि च संयुकविशेषणभावसन्निकपकृतं चक्षुरभावं गृह्णाति, तर्हि तदविशेषात् संयुक्तद्रव्य 'वृत्तीन्' रसादीनपि गृह्णीयात् ॥
'अयोग्यrara गृह्णातीति चेत् तदभावमपि मा ग्रहीत्, अयोग्यत्वाविशेत् | योग्यायोग्यत्वकृतग्रहणाग्रहणनियमवादे वा
अभावस्य प्रत्यक्षाद्यगम्यत्वमुपपादयति-तत्र तावदिति । संयुक्तसमवायादिरित्यादिना अवशिष्टयपरिग्रहः । नास्तीति । असंभवादेवेत्यर्थः । विशेषणताया: सन्निकर्षत्वं निराकरोति - संयुक्तविशेषणभाव इति । अद्रव्यभावात् द्रव्यरूपत्वाभावात् । द्रव्ययोरेव खलु संयोगः ॥
बाधकमप्याह-यदि चेति । रसादीनपीति । घटाभावस्य चक्षुसंयुक्त भूतलविशेषणत्वात् चक्षुषा ग्रहणं चेत् चक्षुस्संयुक्तखण्डशर्करादिविशेषणत्वात् रसादेरपि चक्षुषा ग्रहणं कुतो न स्यादित्यर्थः ॥
अयोग्यत्वाविशेषादिति । रसादिवत् चक्षुर्ब्रहणायोग्यत्वादित्यर्थः । ननु योग्यत्वा योग्यत्वे कार्यानुमेये । एवं चानुभवानुरोधात् अभावः चक्षुर्योग्य एव, रसादिश्व तदयोग्य इति कल्पयाम इत्यत्राह – योग्यायोग्यत्वेति । किम् ? इत्यधिपे । 'योग्यं गृह्यते, अयोग्यं न गृह्यते ' इत्येवं मुखपिधाने
1
भाव - ख. भवो - ग.
' तदभाव - ख.
2 संयोग- क. 3 स स-ख.
4 वर्तीन् - ख.