________________
आह्निकम् १] अनुपलब्धरतिरिक्तप्रमाणत्वम्
131 . इह घटो नास्तीति घटं प्रति सदुपलम्भकप्रमाणप्रवृत्तिर्नास्तीति असौ प्रमाणाभावः घटाभावं परिन्छिनत्ति ॥ _ 'तत्र च घटविषयज्ञातृव्यापारानुत्पाद एव दृश्यादर्शन'वाच्यः' प्रमाणं, नास्तीति बुद्धिः फलम ॥
अथ वा घटाभावग्राही ग्रहीतृव्यापार सदुपलम्भकप्रमाणाभावजनितो नास्तीति 'प्रत्ययस्वभावः प्रमाणम् , फलं तु हानादशानं भविष्यति । तदुक्तम्
'प्रत्यक्षादरनुत्पत्तिः प्रमाणाभाव उच्यते।
साऽऽम परिण मो वा विज्ञानं वाऽन्यवस्तुनि' इति । अन्यवस्तुशब्दन घटाभाव एवोक्तः।
स्वयं व्याकरोति - इहेत्यादि ।
प्रमाणफले विविच्य दर्शयति-तत्र चेति । ज्ञातृव्यापार ज्ञानम् । अन्धकार वटाभा प्रत्यक्षानुदयात योग्यानुपलब्धेरेव कारणत्वेन दृश् त्युक्तम् । दृश्यादर्शन- योग्यानुपलब्धिः॥
हापादानयोरेव मुख्यफलत्वात् 'नास्तीति बुद्धिः फन म' इति न स्वरसमित्यत आर-अथ वेति। घटाभावविषयकः प्रतियोग्यनुपलब्धिजन्य: नास्तीति प्रत्ययात्मक: यः ज्ञ तृव्यापार. स एव प्रमाणम् , हानोपादान साधनत्वात् इत्यर्थः । . प्रत्यक्षादेरिति। प्रत्यक्षानुमानोपमानशब्दार्थापत्तीनामनुत्पत्तिरेव अभावाख्यं प्रमाण मुच्यते : प्रमाणाभावः-प्रमाणरूप अभाव: उपलंभाभावो वा। ननु आत्मनः सर्वप्रमाणानुत्पत्ति. किंरूपा ? इत्गत्राह-सेति । भाः मात्मनो नित्य र पि सविकारत्वमङ्गीकृतम् । तथोक्तं 'विक्रिया ज्ञानरूपाऽस्य न नित्यत्वे विरोम्यते' इति ; 'नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामानवाचित्वे न झुच्छेदोऽस्य तावता' इति च। एतच घटादिज्ञाने जाते आत्मनोऽपि घटज्ञातृरूपतया परिणामः घटादिज्ञानानुत्पत्तो च तज्ज्ञातृरूपपरिणामो नास्तीति अपरिणामी आत्माऽवतिष्ठते इति। ननु तर्हि सुषुप्तिरेव स्यात् : जाग्रहशायां यत्किञ्चिद्विषयभानस्य नियतत्वेन आत्मन परिणामाभावो न वक्तुं शक्य इति चेदाह-विज्ञानं वेति। न सर्वथा परिणामाभावः । किन्तु यत्किञ्चिद्वस्तु भासत एव । किं तदन्यवस्त्वित्यत्राह-अन्यवस्तुशब्देनेति ॥
शब्द:-क.
प्रतीति-क.