________________
130
अनुपलब्धिप्रकरणम्
(न्यायमञ्जरी अथवा नेहशी चर्चा कविभिः सह शोभते ।। विद्वांसोऽपि विमुह्यन्ति वाक्यार्थगहनेऽध्वनि ॥ १५१ ॥ तदलमनया गोष्ठया विद्वजनोचितया चिरं
परमगहनस्तर्कज्ञानामभूमिरयं नयः। प्रकृतमधुना तस्मात् ब्रूमो न भात्यनुमानतः ।
तनुरपि सतामर्थापत्तर्विशेष इति स्थितम् ॥ १५२॥ .
. [अनुपलब्धेः प्रमाणान्तरत्वाक्षेपः] आह-अभावस्तर्हि प्रमाणान्तरमस्तु :सत्परिच्छेदकं यत्र न प्रमाणं प्रवर्तते ।
तदभावमिती मानं प्रमाणाभाव उच्यते ॥ १५३॥ . ज्ञानमेव मुख्य कारणम् । तात्पर्यनिर्णयवेलायामेव अर्थो निर्णीत एव । तत्प्रतिपादनाञ्च शब्दानां तावदर्थबोधकत्वं शक्त्या लक्षणया वा अङ्गीकरणीयमेवेति कुप्तशब्दवृत्तिभ्यामेव बोधनिर्वाह इति भावः। ननु यदि मानान्तर. परिच्छेद्यवस्तुस्वरूपोपदेशकत्वं शब्दानां तर्हि स्मृतेरिव शाब्दबोधस्यापि प्रमात्वं न स्यादिति चेत्-तुल्यमिदमनुमितावपि । तत्र न्याप्तिग्रहणवेलायामेव धूमत्वसामान्यात् वह्नित्वसामान्यस्यापि निश्चितत्वावश्यंभावात् । यदि च सामान्यात्मना निश्चयेऽपि विशेषामनाऽनिश्चयात् पक्षधर्मताज्ञानात् व्यक्तिविशेषे विश्राम्यन्ती अनुमिति: न स्मृतिरूपा भवितुमर्हतीत्युच्यते, तर्हि प्रकृतेऽपि सैव रीतिः। न हि प्रमाणान्तरसंवाददाय॑मन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते' (पु. १०) इति कथितमप्यत्रानुसन्धेयम् । एतद्विचारस्य प्रकृतेऽनतिप्रयोजनकत्वात् सोपहासमुपसंहरति-अथवेति। तदलमित्यादि। अयं परमगहनो विषयः तर्कज्ञानामपि दुनिर्णेय एव । अनुभवशरणास्तु वयं अर्थापत्तेरनुमानात् तनुमपि विशेषं न प्रतीम इत्यर्थः ॥
__ अभावः-उपभाभावः-- अनुपलब्धिरिति यावत्। यत्र भूतलादौ सतो घटादेः परिच्छेदकं - ज्ञापकं प्रमाणं न प्रवर्तते तत्र तादृशघटाभावप्रमितौ प्रमाणाभावः --- उपलंभाभावः मानम् । प्रतियोग्य नुपलम्भ एव अभावोपलम्भे कारणमिति यावत ।।