________________
129
आदिकम् १]
चनेरतिरिक्तवनिरासः काण्डप्राप्तेः। न मंशांशिकया चोदक: प्रवर्तत इत्यलमनया प्रसक्तानुप्रसक्तथागतशास्त्रान्तरगर्भकथाविस्तरप्रस्तावनया ॥
[एवं श्रुतार्थापत्तिप्रतिक्षेमृप्रभाकरपक्षोपसंहारः] इति प्रसङ्गाड्याख्यातं लेशतो वाक्यविन्मतम् । एतस्य युक्तायुक्तत्वपरिच्छेदे तु के वयम'! ॥ १४६ ॥ श्रुतार्थापत्तिरस्माकं दूषणीयतया स्थिता।। तद्दषणं च पूर्वोक्तवीथ्याऽनेन पथाऽस्तु वा ॥ १४७ ॥
[मालकारिकपक्षपतिक्षेपः] एतेन शब्दसामर्थ्यमहिमा सोऽपि वारितः। यमन्यः पण्डितंमन्यः प्रपेदे कंचन ध्वनिम् ॥ १४८॥
• विधेर्निषेधावगतिविधिबुद्धिनिषेधतः। यथा--
भव धम्मिय वीसत्थो मा स्म पान थ! गृहं टिश | १९ ॥
मानान्तरपरिच्छेद्यवस्तुरूपोपदेशिनाम् । ., शब्दानामेव सामर्थ्य तत्र तत्र तथा तथा ॥ २५०॥ भङ्ग इत्युक्तम् । कृत्स्नाङ्गसमुदायस्यैव प्राप्तेरित्यर्थः । अंशांशिकयाएकैकदेशेन । तथा चातिदेशकाले कृत्वमपि प्राप्नुयादव ; प्राप्तयनन्तरमेव च उपयोगानुपयोगचिन्तया बधाद्यवतारः, न तु पूर्वमेवेति ॥ : श्रुतार्थापत्ते निरसनीयत्वेनैतत्पक्षस्यायुक्तताविचारे औदासीन्यादाहके वयमिति ॥
सोऽपि-ध्वनिरपि । विधेनिषेधावगतेरुदाहरणम्-भव धम्मियेति । भत्र 'सिंहस्तत्रास्ति, विनब्धो मा भव' इति ध्वन्यते । 'भव धम्मिय वीसत्थो सो सुणो मज मारिओ देण। गोलाणई कच्छकुडङ्गवासिणा दरिमसीहेण ॥' [छाया-भव धार्मिक ! विस्रब्धः स शुनकोऽद्य मारितस्तेन । गोदावरीनदीकूललतागहनवासिना दृप्ससिझेन ॥] निषेधत: विधिबुद्धेरुदाहरणंमा स्म पान्थेति । 'न कोऽप्यस्ति गृहे, रात्रिरियं गाढा च वार्षिकी । एकाकिन्यहमप्यस्मि' इत्याद्यपादत्रयम् । अत्र : गृहं विश' इत्यर्थः ध्वन्यते । ध्वने: पार्थक्याभावे हेतुमाह-मानान्तरेति । शाब्दबोधे हि तात्पर्य
-
-
-
केवलम-ख.
NYAYAMANJARI