________________
128
अर्थापत्तिप्रकरणम्
न्यायमञ्जरी
अथ तत्कल्पने तेषां विदुरान्तिकवृत्तिता।
स एवार्थगतो न्याय इति तत्कल्पनेन किम् ? ॥ १४ ॥ पेन्द्रामादिषु वैकृतेषु कर्मसु न प्राकृतविध्यन्तवचनानुमानम् , अपि तु चोदकव्यापारेण तस्यैव प्राप्तिः। वैकृतस्य विधेः 'का'चिदाकाङ्क्षा चोदक इत्युच्यते ॥
अर्थाध्याहारेऽपि उपदेशातिदेशयोबेलक्षण्यम् ] नन्वेवमुभयत्र तदवगमाविशेषात् उपदेशातिदेशयोः को विशेषः ? न नियोगावगमे कश्चिद्विशेषः ; किन्तूपदेशे यथोपदेशं. कार्यम् , अति देशे तु यथाकार्यमुपदेश इत्येतयोर्विशेषः ॥
ननु यथाकार्यमुपदेशेऽनुपयुज्यमानकृष्णलचर्ववघातादेः प्राप्तिरेव न भवेदिति को बाधार्थः?-न अखण्डमण्डलविध्यन्तविलम्बाभ्यां निर्णयश्चत् प्रकृतेऽपि तथाऽस्तु । श्रुत्या हि शीघ्रमेवामिमतार्थोपस्थिति:, लिङ्गेन तु विमर्शपूर्वकत्वात् तत: किञ्चिद्विलम्बन, वाक्येन तु ततोऽधिकविमर्शसापेक्षत्वात् तत: किञ्चिद्विलम्बनेत्येवंरीत्याऽर्थोपस्थितौ विलम्ब. स्यानुभवसिद्धत्वात् । एवं विकृतिषु प्रकृत्यङ्गाति देशस्थलेऽप्यङ्गानामेवातिदेशः, न तु तद्विधायकवाक्यानां, वैय्यर्थ्यात्। अग्निविधिहि स्वयमेवाङ्गानेवाक्षिपति, न तु तद्वाक्यान् । अतः सर्वत्रार्थस्यैवोपस्थितिः, न तु शब्दस्येति ॥
___ को विशेष इति । उभयत्रापि परमुखनिरीक्षाया अनावश्यकत्वादिति भावः । नियोगावगमे-विधिरूपार्थावगताविति यावत् । न हि साभ्यागन्तरि गृहिणि भुञ्जति उभयोः भोजनफले वैषम्यमिति । उपदेशस्थले उपदेशानुरोधेन कार्यत्वावगतिः, अति देशस्थले तु विध्या कार्यत्वावगतो सत्यां कथंभावाकाङ्क्षया अङ्गप्राप्तिरिति विशेष: ।।
नन्वेवं सति-दशमे बाधाध्याये अतिदेशप्राप्तकृष्णलचर्वपयोग्यवघातादेः अनुपयोगात् बाध इत्युक्तिर्न संगच्छते। अतिदेशाद्वाक्यप्राप्ती सत्यां खलु अवहननप्राप्तिरिति तद्वाधवर्णनमावश्यकं, यदि च कार्यानुगुणैवोपदेशकल्पना तर्हि कृष्णलचर्षवहननस्य कार्यानुगुण्यं नास्तीति स्वयमेवाप्राप्तौ कुतो बाधावतारः ? इति शङ्कते-नन्विति। समाधत्ते-- नेति । अखण्डे. त्यादि । अखण्डं मण्डलं येषां विध्यन्तानामिति विग्रहः । विध्यन्तः --
1 कदा-ख. देशेनु-क.