________________
आह्निकम् १] प्राभाकरण श्रुतार्थापत्तिनिरसनम्
127 श्रतिलिङ्गादिमानानां विरोधे यच्च वर्ण्यते।
पूर्वपूर्वबलीयस्त्वं, तत् कथं वा भविष्यति ? ॥ १४१ ॥ - उच्यते-सत्यपि सर्वत्र शब्दव्यापारे तत्प्रकारभेदोपपत्तेरेष 'न दोषः । न हि पदानां सर्वात्मना निमित्तभावमपहायव नैमित्तिकप्रतीतिरुपप्लवते । तदपरित्यागाच्च तत्स्वरूपवैचित्र्यमनुवर्तत एव ॥
अन्यथा सिंहशब्देन मतिः केसरिणीसुते । अन्यथा देवदत्तादौ प्रतीतिरुपजन्यते ॥ १४२ ।। गङ्गायां मजतीत्यत्र गङ्गाशब्दो निमित्तताम् ।। उपयाति यथा, नैवं घोषादिवसतौ तथा ॥ १४३ ॥
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामपि अर्थसनिकर्षविप्रकर्षकृतोऽस्त्येव विशेष इति तत्रापि न विनियोगसाम्यम् ।
श्रृंति लिङ्गादिमिर्योऽपि कल्पयेद्विनियोजिकाम।
तस्यापि तस्यास्तुल्यत्वात् बाध्यबाधकता कथम् ? ॥१४४ ॥ प्रमाणं श्रुति कल्पयितुं पर्वर्तते, तावत्येव पूर्वप्रमाणेन श्रुतेः कल्पितत्वात् अनन्तरमप्रमाणं इति हि स्थितिः। एवञ्च वाक्यकल्पनां विनैवार्थोपस्थितिमात्रमेव यदि शाब्दबोधहेतुः, तर्हि कथं प्राबल्यदौर्बल्ये वर्णयितुं शक्यतेत्याक्षेपाशयः ॥ ____ तत्प्रकारभेदेति । शब्दव्यापारमकारविशेषेत्यर्थः। विशेषश्चानुपदमेवोपपाद्यते। न हीत्यादि । न हि वयं सर्वेषामपि शाब्दबोधविषयाणामर्थानां यथाकथञ्चिदुपस्थितिं ब्रूमः । किन्त्वथैकदेशस्यैव । लक्षणास्थले हि भवाच्यानामप्यर्थानां बोधविषयत्वं सर्वसम्मतं, न तावता शक्तेरेव लोपः । बोधस्यानुभवसिद्धत्वे तदनुगुणा सामग्री यथाकथञ्चिदुपपादनीया परं, न तूत्पादनीया। एवञ्च न कोऽपि दोष इति ॥
- मुख्यलाक्षणिकबोधयोर्विशेषमाह-अन्यथेत्यादि। 'सिंहोऽयम' इत्यत्र सिंहपदेन, 'सिंहो देवदत्तः' इत्यत्र च तत्पदेन विलक्षणौ बोधौ सर्वानुभवसिद्धौ, एवं गङ्गायां मजति' 'गङ्गायां घोषः' इत्यादौ गङ्गापदाभ्याम् । वैलक्षण्यनियामकं च मानभाविकस्मारकशक्तिभेदो वा अन्यद्वेत्यन्यदेतदिति ॥ . एवमेव श्रुतिलिङ्गादिष्वप्यूह्यम् । अन्यथा भवन्मते वा कथं निर्वाह इस्याह-- श्रुतीत्यादि। तस्यापि-लिङ्गादेरपि। तस्याः-श्रुतिकल्पनाया. सर्वैरपि श्रुतिरेव कल्प्यते चेत् कथं प्राबल्यदौर्बल्यनिर्णयः ? विलम्बा
थो यश्च-ख. दोष:-क..