________________
126 अर्थापतिप्रकरणम्
[न्यायमञ्जरी कानुसारद्वारक इत्युक्तम् । एवमश्रुतेष्वपि भविष्यति । न यजौ करणविभक्तिं शृणुमः : न स्वर्ग 'कर्म'विभक्तिम् ; नाग्नचिदादिषु क्किप्प्रत्ययम् ; नाधुनादिषु प्रकृतिम् ; न समासतद्धितेषु यथोचितां विभक्तिम् अपि च प्रतीम एव तदर्थम । __एवं विश्वजिदादावपि 'यजेत' इति नैमित्तिकबलादेव स्वर्गकामादिपदार्थ प्रत्येष्यामः। नियोगगर्भत्वाच्च विनियोगस्य लिङ्गादीनि श्रुतिकल्पनामन्तरेणापि नियोग व्यापारं परिगृह्य तेन' वस्तुनि विनियोजकतां प्रतिपत्स्यन्ते ॥
एतन्मते मुख्यगौणादिन्यवहारनिर्वाहः) नन्वेवं सति सर्वत्र शब्दव्यापारसंभवात् ।। मुख्यस्यापि भवेत् साम्यं गौणलाक्षणिकादिभिः ॥ १४० ॥
एवमित्यादि। पदाश्रवणेऽपि प्रकारान्तरेण उपस्थितस्यार्थस्य शाब्दबोधे भानसंभवादिति भावः। अत्र दृष्टान्तान्याह-न, यजावित्यादि। शृणुम इत्युत्तरवाक्येष्वप्यन्वेति । 'स्वर्गकामो यजेत' इत्यादौ हि यागस्य करणत्वावगमकतृतीयाभावेऽपि करणत्वं बोध्यत एव ; यागस्वर्गयोः साध्यसाधनभावस्य वेदैकगम्यत्वात् । एवं स्वर्गस्य भाव्यत्वमपि तत्रैव बोध्यते । 'अग्निचित्' इत्यादौ च ' अग्नौ चे:' इति क्विबो विधानेऽपि न शृणुम एव प्रत्ययम्। 'अधुना' इत्यत्र च 'अधुना' इति निपातनात् प्रत्ययमात्रमेव शिष्यते। किं बहुना लोकिकेष्वपि समासादिषु राजपुरुष इत्यादौ राजादिपदात् षष्ठयाद्यभावेऽपि तदर्थप्रतीतिः परं वर्तत एव। अतः पदादनुपस्थितस्यापि शाब्दे भानं युज्यत एवेति प्रघट्टकार्थः ॥
एवं सति--पदादनुरस्थितस्यापि शाब्दबोधविषयत्वे । शब्दव्यापार : ----अर्थोपस्थितिः। एवञ्च गौणस्य लाक्षणिकस्याप्यर्थस्य शाब्दबोधविषयत्वेन मुख्यापेक्षया को विशेषस्तयोः। एवं श्रुतिलिङ्गादीनामङ्गताग्राहकाणां प्रमाणानां परस्परविरोधे पूर्वपूर्वप्राबल्यं यत् भवद्भिवण्यते तदपि न स्यात्। तत्र अर्थोपस्थितिं प्रति श्रुतिकल्पनाया मावश्यकत्वेन पूर्वपूर्वप्रमाणमुत्तरोत्तरं कल्पयित्वा क्रमेण श्रुतिं कल्पयतीति वक्तव्यम्। एवञ्च यावत् अनन्तर
करण-क.
'व्यापारपरिगृहीते-क.