________________
125
आह्निकम् १] प्राभाकरेण श्रुतार्थापत्तिनिरसनम्
नैमित्तिकानुकूल्यपर्यालोचनया क्वचिदथ्यमाणान्यपि तानि निमित्ततां भजन्ते-विश्वजिदादी स्वर्गकामादिपदवत् ॥
क्वचित् श्रूयमाणान्यपि तदननुकूलत्वात् परित्यज्यन्ते" यस्योभयं हविरार्तिमाछेत्" इतिवत् ॥
क्वचिदन्यथास्थितानि तदनुरोधादन्यथैव स्थाप्यन्ते"प्रयाजशेषेण हवींष्यमिधारयति" इतिवत् ॥
तस्मात् प्रथमावगतैकघनाकारवाक्यार्थानुसारेण सतामसतां वा पदानां निमित्तभावव्यवस्थापनात् अथ्रयमाणतथाविधैकदेशादपि वाक्यात् तदर्थावगनिसंभवात् किं श्रुतार्थापत्त्या? अत एव न सोपानव्यवहितं तस्यार्थस्य शाब्दत्वम् , साक्षादेव तत्सिद्धः ॥
. पदाश्रवणेऽपि अर्थोपस्थित्युपपादनम् ]
ननु अथ्रयमाणेषु निमित्तषु कुतस्तदर्थमवगच्छामः ? अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयामः ?-उच्यते-श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्नाऽवकल्पते, किन्तु नैमित्त.
नैमित्तिकस्य • यत् आनुकूल्यं, तत्पर्यालोचनया-कीदृशेन व्यापारवता नैमित्तिकं प्रधानं अनुकूलितं स्यादिति पर्यालोचनयेत्यर्थः ॥ . यस्योभयमिति । श्रुतस्य विधिप्रत्ययस्यार्थ: त्यज्यत इत्यस्योदाहरणमिदम् ॥
प्रयाजशेषेणेति। विधिप्रत्ययाश्रवणेऽपि तस्कल्पनाया उदाहरणमिदम् ॥ - तस्मात्-शब्दस्य अर्थशेषत्वात् । एकघनेति। श्रुतेषु पदेषु भयमंशः अनेन पदेन प्रत्याय्यते - इति विवेचनमन्तरा शाब्दबोधस्य आहत्य तावत्पदजातत्वात् तावानप्यर्थः तच्छन्दगम्य एव, न तु कल्पितपदान्तरगम्य इत्यर्थः । सोपानं-कल्पितशब्दः ॥
कीदृशामिति । निमित्तभेदात् खलु प्रत्यक्षादिनैमित्तिकभेदः सिद्धयति । प्रकृते च निमित्तस्यैवाभावे नैमित्तिकं शाब्दमिति कथं निर्णयेतेत्यर्थः । स्वमहिम्ना- स्वरूपत इति यावत्। नैमित्तिक-पदार्थस्मरणादि ।
एव-क.
न च-ख.