________________
124 अर्थापत्तिप्रकरणम्
न्यायमजरी [माभाकरोक्तश्रुतार्थापत्तिनिराकरणप्रकारः] भाकरास्तु दृष्टः श्रुतो वा' इतिभाष्यं 'लौकिकमभिधानान्तरमेवेदमुपलब्धिवचनम्' इति घर्णयन्तः श्रुतार्थापत्ति प्रत्याचक्षते । श्रूयमाणस्यैव शब्दस्य तावत्यर्थे सामर्थ्य मुपगच्छन्तः तमर्थ शाब्दमेव प्रतिजानते। वाक्यस्य दूराविदूरव्यवस्थितगुणागुणक्रियाद्यनेककारककलापोपरक्तकार्यात्मकवाक्यार्थप्रतीतौ इषोरिव 'दीर्घदी?' व्यापारः। अविरतव्यापारे च शब्दे सा प्रतीतिरुदेति, तद्यापारविरतौ नोदेति। तदुत्पादककारकाभावात् । वृद्धव्यवहारतश्च शब्देषु व्युत्पद्यमानो लोकः तथाभूतवाक्यव्यवहारिणो वृद्धान् पश्यन् वाक्य'स्यैव' तादृशवाक्यार्थे सामर्थ्यमवधारयति ।। तदनुवर्तीनि तु पदानि तस्मिन्नमित्तिके निमित्तानि भवन्ति ॥ .
श्रुतार्थापत्तिगम्यस्यार्थस्य साक्षादेव वैदिकत्वं वदतां प्राभाकरांणां मतमुपन्यस्यति-प्राभाकरास्त्वित्यादि । तथा.हि बृहती- 'दृष्टः श्रुतो वेति दर्शनश्रवणोपन्यासः किं कारणान्तरव्युदासाय.? नेति वदामः, उपलब्धोऽर्थ इत्यर्थः । श्रुतग्रहणमिदानी किमर्थम् ? दृष्ट इत्येव वक्तव्यमउच्यते-अमिधानान्तरमेवेदमुपलब्धेर्वाचकम्' इति । अत्र शालिकनाथ. मिश्रा:-'अस्यार्थः-दृष्टशब्दमात्रेण न सर्वपरिग्रह , किन्तु श्रुतशब्दसहितेन ; तेन श्रुतग्रहणं नानर्थकम् । कथं पुनः श्रुतग्रहणरहितेन दृष्टशब्देनोपलब्धं नोच्यते-श्रूयताम् ---दृष्टशब्देन यद्यप्युपलब्धिमात्रमुच्यते ; तथाऽपि श्रुतशब्दसन्निधानात् गोबलीवर्दन्यायेन शब्दप्रमितव्यतिरिक्तमुच्यते। नन्वेतस्य गोबलीवर्दन्यायस्याश्रयणे किं प्रयोजनम् ? उच्यते - लौकिका वयम् । लोकश्वेत्थमपि व्यवहरमाणो दृश्यते। न च लोके पर्यनुयोगावकाशोऽस्ति अनादित्वात्' इति । लौकिका हि न मयेदं दृष्टं श्रुतं वा' इति व्यवहरन्ति, न त्ववगतिपदप्रयोगमात्रेण तृप्यन्ति इत्याशयः। ननु श्रयमाणस्यैव शब्दस्य कथं ततोऽप्यधिकबोधजनकत्वम् ? इत्यत्राह वाक्यस्येति । तथाविधेति ।. दूरादूरग्यवस्थितपदार्थबोधकेत्यर्थः । तदनुवर्तीनि-तादृशसामर्थ्यावधारणानुयायीनि । तस्मिन्नित्यादि । अर्थावगत्यर्थो हि शब्दः । अतश्च प्रधानभूतार्थावगतौ अप्रधानं शब्दः प्रधानानुरोध्येव भवेदित्यर्थः ॥ ___ दीघों-क. 'म्युत्पाद्यमानो-ख. 'स्य च-ख.