________________
आह्निकम् १]
श्रुतार्थापत्तिगम्यार्थानां वैदिकत्वोपपादनम्
युक्तम | | वचनैकदेशकल्पनमपि अर्थावगतिसिद्धयर्थमेवेति तत्कल्पनमेवास्तु किं सोपानान्तरेण ?
[श्रुतार्थापत्तेरनुमानत्वेऽपि तद्गम्यार्थानां नावैदिकत्वम् ]
यत्तु कल्प्यमानस्यार्थस्यावैदिकत्वं प्राप्नोतीति- -तत्र वचनकल्पनापक्षे सुतरामर्वेदिकः सोऽर्थः स्यात् : कल्प्यमानस्य वचनस्य वेदादन्यत्वात् ॥
श्रुतः, अनुमितद्विविधः स वेद एवेति चेत्; श्रीतार्थः, श्रीतार्थानुमितः द्विविधः स वेदार्थ एव भविष्यतीति किं वचनसोपानान्तरकल्पनया ? तेन श्रूयमाणवेदवचनप्रतिपाद्यार्थ सामर्थ्यलभ्यत्वा'देव तस्य' वेदार्थता भविष्यति । सर्वथा न वचनैकदेशविषया श्रुतार्थापत्तिः श्रेयसी । श्रुत्येक देशकल्पनापक्षप्रतिक्षेपाच्च ॥
[अर्थस्यातीन्द्रियत्वेऽपि व्याप्तिग्रहः संभवत्येव ]
तदतीन्द्रियतया सम्बन्धग्रहणमघटमानमिति यदुक्तं - तदपि प्रत्युक्तम - अर्थे तु सामान्येन सम्बन्धग्रहणमपि सूपपादम् । तत्र तत्र ज्यादेरर्थस्याधिकाराद्यर्थान्तर' सम्बद्धस्य दृष्टत्वादिति ॥
123
इत्यादिशब्दजन्यज्ञाने भानमिति शङ्कयम् - क एवमाह, तस्मिन्नेव बोधे रात्रिभोजनभानमिति । पाणिकस्तु स बोधः, न शाब्द इति ।
श्रुतार्थापत्तिकल्पिक भीतिमपनुदति यत्वित्यादि । वेदादन्यत्वादिति । वेदस्यापौरुषेयत्वेन कल्पयितुमशक्यत्वादिति भावः ॥
शङ्कते - श्रुत इति । प्रकृतेऽपीदं तुल्यमित्याह - श्रौतार्थेत्यादि । 'तेनेत्यादि । भवता कल्पितेन शब्देन प्रतिपाद्यत्वापेक्षयाऽपि साक्षाद्वेदप्रतिपाद्यार्थ सामर्थ्य लभ्यत्वमेव अर्थस्य वैदिकत्वं प्रापयेदिति भावः ॥
सामान्येनेत्यादि । विशेषतो दृष्टाऽनुमानाभावेऽपि सामान्यतोदृष्टानुमानं वर्तत एव । अन्यथा 'विश्वजिता यजेत ' इत्यादौ अधिकारविधि - कल्पनैव न स्यात् इति भाव ॥
1 देवदत्तस्य क.
2
रा-ख.