________________
122 'अर्थापत्तिप्रकरणम
न्यायमजरी [श्रुतार्थापत्तेरावश्यकत्वाक्षेपपरिहाग]
ननु वचनमपरिपूर्णमिति प्रतीतिमेव यथोचितां जनयितुमसमर्थम
किं पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यतो न भवति तत्पीनताप्रतीतिः?
नन भवति, साकाङ्क्षा तु भवति। न च साकाङ्क्षप्रतीतिकारिणस्तस्य प्रामाण्यम् ---इति तदेव तावत् पूरयितुं युक्तम् ॥ ...
तदसत्--कस्यात्र साकाङ्क्षत्वम् ? किं शब्दस्य? किं वा तदर्थस्य ? उत वित्तदवगमस्य : इति ॥
शब्दस्य तावदर्थ निरपेक्षस्य न काचिदाकाङ्क्षा, अनभिव्यक्त-. शब्दवत् ॥
अर्थस्तु साकाङ्क्षस्सन् अर्थान्तरमुपकल्पयतु ; कोऽवसरो वचनकल्पनायाः?
अवगमो'ऽप्यर्थविषय एव साकाङ्खो भवति, न शब्दविषयः । श्रोत्रकरणकः। तस्मादवगमनैराकालयसिद्धये , तदर्थकल्पनमेव
'प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः' (104 पु.) इत्युक्तं स्मारयतिनन्विति। असमर्थ मिति। तथा च निराकासबोधसिद्धयर्थ वाक्यान्तरापेक्षवास्ति, पदजन्यपदार्थोपस्थितेरेव शाब्दबोधं प्रति कारणत्वादिति विशेषः । सिद्धान्ती शोधनाय पृच्छति-किमिति । पूर्वपक्षी समाधत्ते-न न भवतीति। भवत्येवेत्यर्थः। अस्तु निराकाङ्क्षबोध: अन्यसापेक्षः, अथापि सोऽर्थः शब्दादेवो. पस्थापयितव्य इति कुत इत्यत्राह-तदेवेति। वचनमेवेत्यर्थः । पदजन्यपदार्थोपस्थितेरेव शाब्दबोधजनकत्वात् । न चायं शाब्दबोध एव नेति वाच्यम् ; पीनत्वाद्यर्थानां शब्दत एवोपस्थितत्वादिति भावः ।।
समाधत्ते --तदसदिति अवगमस्य-ज्ञानस्य ॥
तदवगम इत्यत्र तृतीयकल्पे तच्छब्दार्थ: किम् अर्थः ? उत शब्द ? इति विकल्प्य दूषयति-अवगमोऽपीति। शब्दविषयः---शब्दविषयकः । इन्द्रियं खलु विद्यमानयथाभूतार्थग्राहि नाधिकमर्थमपेक्षत इति भावः । तस्मादित्यादि। न च पदजन्यपदार्थोपस्थित्यभावे कथं तस्य पीनो देवदत्तः '
गम्यो -ख.