________________
आह्निकम् १] भ्रतार्थापत्तिरप्यनुमानमेव
121 "यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति।
मम त्वदृष्टिमात्रेण गमकाः सहचारिणः॥” (श्लो.वा.) इति कथयितुमुचितम्। अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति दर्शयिष्यामः॥ ___ पक्षधर्मान्व'यवत्' व्यतिरेकोऽपि 'ना'गृहीतोऽनुमानाङ्गम् । बहिर्भावसिद्धो चानुमानप्रयोगः स एव, यस्त्वया दर्शितः। तस्य तु प्रति प्रयोगः प्रत्यक्षादिविरुद्धत्वात् हेत्वाभास एवेत्यलं प्रसङ्गेन ॥
[श्रतार्थापत्तिरप्यनुमानमेव श्रुतार्थापत्तिरपि वराकी नानुमानात् भिद्यते। वचनैकदेशकल्पनाया अनुपपन्नत्वात् , अर्थस्य च 'कार्यलिङ्गगम्यस्य सत्त्वात् । यथा क्षितिधरकन्धराधिकरणं धूममवलोक्य तत्कारणमनलमनुमिनोति भवान् , एवमागमात् पीनत्वाख्यं कार्यमवधार्य तत्कारणमरिभोजनमनुमिनोतु । कोऽत्र विशेषः । तत्कार्यतया भूयोदर्शनतः प्रतिपन्नत्वात्। लिङ्गस्य तु क्वचित् प्रत्यक्षेण ग्रहणम्, क्ववित् वचनतः प्रतिपत्तिरिति नैष महान भेदः॥ दर्शयिष्याम इति। अनुमानसूत्र इति शेषः॥
.. ननु व्यतिरेकव्याप्तिः स्वरूपसत्येवालमित्यत्राह-पक्षधर्मेति । अन्यथा पक्षधर्मताया अपि ज्ञानमनपेक्षितं स्यादिति भावः। स पवेत्यादि । पूर्वपक्षकाले भवता प्रदर्शित एवास्मरसम्मत: दूषणोद्धारात् निरवद्यः स्थापितः । भतस्तस्य प्रतिप्रयोग: निरवकाश इति भावः ॥ - दृष्टार्थापत्तेरेवानुमानान्तर्भावे किमुत श्रुतार्थापत्तरित्यमिप्रायेण आहेवराकीति। अर्थस्य चेति । कार्यरूपलिङ्गाम्यस्य अर्थस्य -- पीनत्वाख्यस्य । विशेष इति । अनुमानादिति शेषः । ननु तत्र धूमस्य दर्शनमेव, अत्र तु पीनस्वस्य प्रतीतिः शब्दादित्यस्ति विशेषः इति शङ्कां वारयति-लिङ्गस्येति ॥
प्रतिपक्ष-ख.
कार्यलिङ्गस्य-ख.
'याद, य-ख. 'न-क. पीवर-क. को-क.