________________
120
अर्थापन्तिप्रकरणम्
न्यायमञ्जरी
पतञ्च स्वयमाशङ्कय न तैः प्रतिसमाहितम् ।
उदाहरणमन्यत्तु व्यत्ययेन प्रदर्शितम् ॥ १३८ ॥ गृहभावेन बहिरभावकल्पनमिति, 'तत्रैतदेव वक्तव्यम् । इयमभावपूर्थिका न भवत्येवार्थापत्तिः। षडापत्तीः प्रतिज्ञाय इमामभावपूर्विका अर्थापत्तिमुक्ता उपनैय्यायिक केसरिकटाक्षपातभीतां इह गहने हरिणीमिव यदुपेक्ष्य गम्यते- तदत्यन्तमत्रभवतामनार्यजनोचितं चेष्टितम् ॥
त्वदेकशरणां बालामिमामुत्सृज्य गच्छतः। कथं ते तर्कयिष्यन्ति मुखमन्या अपि स्त्रियः!॥ १३९ ।। भावेनाभावक ल्पना तु प्रत्यक्षपूर्विकैवार्थापत्तिः। तस्या अपि च न दुरवगमः सम्बन्धः । असर्वगतस्य द्रव्यस्य नियतदेशवृत्ते'क्लेशन तदितरदेशनास्तित्वावधारणात् । अनग्निव्यतिरेकनिश्चये च धूमस्य भवतां का गतिः ? या तत्र वार्ता सैवेदापि नो भविष्यति ॥
न च भूगेदर्शनावगम्यमानान्वयमात्रैकशरणतया--
स्वयमाशङ्कयेति । 'गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत्' इत्यादिना वार्तिककृतेत्यर्थः। व्यत्ययेनेति। 'यदैकस्मिन्नयं देशे न तदान्यत्र विद्यते' इतीति शेषः । अवतारितं चेदं भट्टोम्बेकेन-'उदाहरणान्तरपरिग्रहेण परिहारमाइ' इति । इयमित्यादि। किन्तु भावपूर्विकैवेति शेषः। एवं प्रतिज्ञातदृष्टान्तपरित्यागिनं सोपहासमुपालभते -उपनैय्यायिकेत्यादि। गौतमादिमहर्षिभ्यस्तु भीतिः न्याय्येति उपहासः॥
प्रत्यक्षपूर्विकैवेति। गृहे विद्यमानत्वस्य प्रत्यक्षत्वादित्यर्थः। इयमपि नार्थापत्तिः, अपि तु अनुमानमेवेत्याह-तस्या अपीति। तदितरेति। तादृशद्रम्पदेशेतरेत्यर्थः । अनग्नोति। अनग्नेय॑तिरेकः। व्यतिरेकव्याप्तिर्हि प्रकृतहेतोरेवोपोद्वलकः । तथा च वह्नयभाववतो व्यावृत्यवगमरूपन्यतिरेकव्याप्तेरपि भवदृष्टयाऽर्थापत्तिरूपत्वेन अनुमानस्याप्यर्थापत्तावेवान्तर्भावः स्यादिति ॥
अन्वयसहचारदर्शनमात्रेणानुमानमवृत्तेः व्यतिरेकव्याप्तयभावेऽपि न क्षतिरिति शक्ते-न नेति। अस्य कथयितुमुचितमित्यनेनान्वयः ।
तत्रैव-ख.
कटाक्ष-स्व.